काङ्क्षायाम्' । 'णट ३१० नृत्तौ' । 'पिट ३११ शब्दसंघातयोः' । 'हट दीप्तौ' । 'षट ३१३ अवयवे' । 'लुट ३१४ विलोडने' । 'डान्तोयम्' इत्येके 'चिट ३१५ परप्रेष्ये' । 'विट ३१६ शब्दे' । 'बिट ३२७ आक्रोशे' । बशादिः । 'हिट' इत्येके । 'इट ३१८ किट ३१९ कटी ३२० गतौ' । एटति । केटति । कटति । ईकारः 'श्वीदितो निष्ठायाम्' (३०३९) इतीण्णिषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्येतु 'इ' 'ई' इति प्रश्लिष्य, अयति । इयाय । इयतुः । इयुः । इययिथ-इयेथ । ईय-इयाय-इयय । दीर्घस्य तु 'इजादेश्च–' (२२३७) इत्यामि अयांचकारेत्यादि उदाहरन्ति । 'मडि ३२१ भूषायाम्' । 'कुडि ३२२ वै-
रूप्यापादकादेशादित्वादेत्वाभ्यासलोपौ । द्वितीयस्य तु न । जेटतु । जझटतु । नट नृत्ताविति ॥ णोपदेश । चुरादेरेव नाटेः पर्युदासादय णोपदेश एव । प्रणटति । इटकिटकटीगताविति ॥ कटे वर्षावरणयोरिति कटि. पूर्वमेदित्पठित । इह ईदित्पठ्यते । एदित्वाभावात् ह्म्यन्तेति वृद्धिनिषेधो न भवति । अकटीत् । अकाटीत् । ननु तर्हि कटेत्येव कुतो न पठ्यत इत्यत आह । ईकार इति । केचित्त्विति ॥ कटि इति ह्रस्वान्तपाठ मत्वा इदित्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः । अन्येत्विति ॥ उदाहरन्तत्यिन्वयः । प्रश्लिष्येति ॥ कटि इत्यनन्तरम् इ ई इति धातुद्वय सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः । अयतीति ॥ इधातोर्लटि शपि गुणे अयादेशः । इयायेति ॥ णलि द्वित्वे वृद्धौ आयादेशे अभ्यासस्याऽसवर्ण इति इयड् । इयतुरिति ॥ इकारोऽत्र ह्रस्वः । तथाहि इ अतुसिति स्थिते कित्वाद्गुणभावे द्विर्वचनेऽचीति निषेधाद्यणभावे इ इत्यस्य द्वित्वे इ इ अतुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयडभावे सति वार्णदाङ्गम्बलीय इति सवर्णदीर्घम्बाधित्वा एरनेकाच इत्युत्तरखण्डस्य यणि इयतुरिति रूपम् । इधातोर्भारद्वाजनियमात्थलि वेट् । तत्र इट्पक्षे रूपमाह । इययिथेति ॥ थलि द्वित्वे इटि पित्वेन कित्वाभावात् गुणे अयादेशे अभ्यासस्य इयड् । नचाचः परस्मिन्निति गुणस्य स्थानिवत्त्वेन असवर्णपरत्वाभावात् कथमभ्यासस्य इयडिति वाच्यम् । असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाप्रसक्तेः । एव णलि इयायेत्यत्रापि वृद्धेर्नस्थानिवत्त्वम् । थलि इडभावपक्षे रूपमाह । इयेथेति ॥ थलि द्वित्वे गुणे अभ्यासस्येयड् । अथुसि इयथुः । इयेति ॥ थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य एरनेकाच इति यणि रूपम् । णलुत्तमोवेति णित्वपक्षे आह । इयायेति ॥ द्वित्वे पित्वेन कित्वाभावात् वृद्धौ आयादेशे अभ्यासस्य इयड् । णित्वाभावे आह । इययेति ॥ द्वित्वे पित्वेन कित्वाभावात् गुणे अयादेशे अभ्यासस्य इयड् । वसि मसि च क्रादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य एरनेकाच इति यणि इयिव इयिमेति रूपम् । एता एष्यति अयतु ऐत् अयेत् । आशीर्लिङि तु अकृत्सार्वधातुकयोरिति दीर्घात् ईयात् । सिचि वृद्धिः । ऐषीत् । ऐष्यत् । दीर्घस्य त्विति ॥ दीर्घस्य ईधातोरित्यर्थः । तस्य लिट वर्जयित्वा लडादिषु पूर्ववत् । लिटि विशेषमाह । अयाञ्चकारेति ॥