पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३२३
बालमनोरमा ।

२६०४ । दोषो णौ । (६-४-९०)

'दुषः' इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ।

२६०५ । वा चित्तविरागे । (६-४-९१)

विरागोऽप्रीतता । चित्तं दूषयति-दोषयति वा कामः । 'मितां ह्रस्वः' (सू २५६८) । भ्वादौ चुरादौ च मित उक्ताः ।घटयति । 'जनीजॄष्---' । जनयति-जरयति । जृणातेस्तु । जारयति 'रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः' (वा ४०६७) । मृगरमणमाखेटकम् । रञ्जयति मृगान् । 'मृग--' इति किम् । रजयति पक्षिणः । रमणादन्यत्र तु रञ्जयति मृगान्तृणदानेन । चुरादिषु ज्ञपादिश्चिञ् । 'चिस्फुरोर्णौ' (२५६९) । चपयति-चययतीत्युक्तम् । चिनोतेस्तु । चापयति-चाययति । स्फारयति-स्फोरयति । अपुस्फरत्-अपुस्फुरत् ।


ऊत्त्वमिति भावः । दोषो णौ ॥ उपधाया इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः तस्य कृतलघूपधगुणस्य निर्देश । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ॥ णाविति शेष । दूषयतीति ॥ लघूपधगुणापवाद ऊत् । दुषो णावित्येव सुवचम् । वा चित्तविरागे ॥ ऊदुपधाया इति, दोषो णाविति, चानुवर्तते । चित्रविरागे दुष उपधाया ऊद्वास्यात् णाविति फलितम् । विरागपदस्य विवरण अप्रीततेति । इच्छाविरह इत्यर्थः । चित्तमिति ॥ चित्त दुष्यति स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्त भवति । तत्प्रयोजयति काम इत्यर्थः । मितां ह्रस्वः इति ॥ णौ मितामुपधाया ह्रस्वः इति प्राग्व्याख्यातमपि स्मारयति । जनी जॄषिति ॥ इदमपि व्याख्यात स्मार्यते । जृणातेस्त्विति ॥ श्नाविकरणस्य अषित्त्वान् न मित्त्वमिति भावः । रञ्जेर्णाविति ॥ णे कित्त्वाभावात् अनिदितामित्यप्राप्तौ वचनम् । मृगरमणपदस्य विवरण आखेटकमिति । मृगयेत्यर्थः । रजयति मृगानिति ॥ 'रञ्ज रागे' शब्विकरण । 'रञ्जेश्च' इति शपि नलोपः । रजन्ति मृगाः ग्राह्या भवन्ति । तान् मृगान् तादृग्व्यापारविषयान् करोति मृगवधासक्तो राजादिरित्यर्थ । अत्र नकारलोपः । रञ्जयति पक्षिणः इति ॥ पक्षिणो रजन्ति ग्राह्या भवन्ति । तान् तादृग्व्यापाराविषयान् करोतीत्यर्थ । पक्षिग्रहणमिद न मृगयेति मन्यते । रञ्जयति मृगान् तृणदानेनेति ॥ धावतो मृगान् रक्षणाय तृणसमर्पणेन बन्धनस्थानकान् करोतीत्यर्थः । चुरादिष्विति ॥ चुरादिषु ज्ञपादिपञ्चकान्तर्गताश्चिञ्धातुरस्ति तस्मात् स्वार्थणिचि कृते 'चिस्फुरो' इति आत्त्वपक्षे पुकि मित्त्वादुपधाह्रस्वे चपयतीति रूपम् । आत्त्वाभावे तु वृद्धौ आयादेशे मित्त्वाध्द्रस्वे चययतीति रूपमुक्तञ्चुरादावित्यर्थः । चिनोतेस्त्विति ॥ श्नुविकरणस्य तु चिञ्धातोर्हेतुमण्णो 'चिस्फुरोः' इति आत्त्वे पुकि मित्त्वाभावाध्द्रस्वाभावे चापयतीति रूपम् । आत्त्वाभावे वृद्धौ आयादेशे मित्त्वाभावाध्द्रस्वाभावे चाययतीति रूपमित्यर्थ । स्फारयति-स्फोरयतीति ॥ 'चिस्फुरोः' इत्यात्त्वविकल्पः । अपुस्फरत्-अपुस्फुरदिति ॥ स्फुर् इ अ त् इति स्थिते द्वित्वे कर्तव्ये णावच