पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
[णिच्
सिद्धान्तकौमुदीसहिता

२६०६ । उभौ साभ्यासस्य । (८-४-२१)

साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ।

२६०७ । णौ गमिरबोधने । (२-४-४६)

इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति । 'इण्वदिक' (वा १५७७) । अधिगमयति । 'हनस्तोऽचिण्णलोः' (सू २५७४) । 'हो हन्तेः' इति कुत्वम् । घातयति । 'ईर्ष्यतेस्तृतीयस्येति वक्तव्यम्' (वा ६४०६) तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः । आद्ये षकारस्य द्वित्वम् वारयितुमिदम् । द्वितीये तु 'अजादेर्द्वितीयस्य' (सू २१७६) इत्यस्यापवादतया सन्नन्ते


आदेशस्य निषिद्धतया स्फुरित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णाविति उत्तरखण्डे आत्त्वविकल्पः । आत्त्वपक्षे उपधाह्रस्व इति भावः । उभौ साभ्यासस्य ॥ अनितेरित्यनुवर्तते । 'अन प्राणने' इतिधातेरित्यर्थ. । 'रषाभ्यान्नो ण.' इत्यधिकृतम् । 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादित्यनुवर्तते । तदाह । साभ्यासस्येत्यादिना ॥ निमित्ते सतीति ॥ उपसर्गस्थे रेफे सतीत्यर्थः । प्राणिणदिति ॥ अन् इ अ त् इति स्थिते 'अनितेः' इति णत्वस्यासिद्धत्वात् नि इत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवधानाण्णत्वे अप्राप्ते उभयोर्नकारयोरनेन णत्वमित्यर्थः । नच 'पूर्वत्रासिद्धीयमद्विर्वचने' इति निषेधात् द्वित्वे कर्तव्ये णत्वस्यासिद्धत्वविरहेण परत्वात् कृते णत्वे ततः पश्चात् द्वित्वे प्राणिणदिति सिद्धमिति वाच्यम् । अत एव 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यत्वविज्ञानात् । तेन ऊर्णुनावेत्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृते अभ्यासोत्तरखण्डे णत्वाभावसिद्धिरित्यन्यत्र विस्तरः । णौ गमिरबोधने ॥ 'इणो गा लुडि' इत्यतः इण इत्यनुवर्तते । तदाह । इणो गमिरिति ॥ मकारादिकार उच्चारणार्थ. । गमयतीति ॥ प्रापयतीत्यर्थ. । प्रत्याययतीति ॥ बोधयतीत्यर्थ.। लुडि प्रत्याययत् । इणो णिचि 'इणो यण्' इति यणम्बाधित्वा परत्वात् वृद्धौ आयादेशे आय् इ अ त् इति स्थिते यि इत्यस्य द्वित्वम् । नच द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद्वृध्देर्निषेध. शङ्क्य. । 'अजादेर्द्वितीयस्य' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाभावात् 'इक् स्मरणे' इत्यस्य इण्वत्त्वमुक्त स्मारयति । इण्वदिकः इति । अधिगमयतीति ॥ स्मारयतीत्यर्थ । हन्तेर्ञिति णिति च तकारादेशमुक्त णौ स्मारयति । हनस्तोऽचिण्णलोरिति । कुत्वमिति ॥ हस्येति शेषः । उपधावृद्धि मत्वा आह । घातयतीति ॥ लुडि अजीघतत् । ईर्ष्यतेर्णौ रूपम् । वक्तव्यमिति ॥ द्वित्वमिति शेषः । इति वार्थः इति ॥ 'न न्द्राः' इति सूत्रभाष्ये स्पष्टमिदम् । आद्ये इति ॥ तृतीयस्य व्यञ्जनस्येति पक्षे इत्यर्थः । षकारस्येति ॥ अन्यथा ईर्ष्य् इ अ त् इति स्थिते 'नन्द्राः' इति रेफ वर्जयित्वा षकारसहितस्य ष्यि इत्यस्य द्वित्व स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् । ऐर्ष्य्यदितीष्ट न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवञ्च यकारमात्रस्य द्वित्वे णिलोपे सयुक्तद्वियकारमिष्ट सिध्द्यतीत्यर्थः । द्वितीये इति ॥ तृती-