पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु

॥ अथ तिङन्तसन्प्रकरणम् ॥

२६०८ । धातोः कर्मणः समानकर्तृकादिच्छायां वा । (३-१-७)

इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । 'सन्यत:' (सू २३१७) । पठितुमिच्छति पिपठिषति । 'कर्मण:' किम् । गमनेनेच्छतीति करणान्माभूत् । 'समानकर्तृकात्' किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । 'लुङ्सनोर्घस्लृ' (सू २४२७) । 'एकाच उपदेशे–' (सू २२४६) इति नेट् । सस्य तत्वम् । अत्तुमिच्छति ।


अथ सन्प्रक्रियाः निरूप्यन्ते । धातोः कर्मणः ॥ 'गुप्तिज्किद्भयः' इत्यतस्सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्ताम्प्रत्येव कर्मत्व विवक्षितम् । तथा कर्मणस्समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्दद्वारा धातौ सामानाधिकरण्येनान्वेति । एवञ्च इच्छासमानकतृकत्वे सति इच्छाकर्मीभूतो यो व्यापार. तद्वाचकाद्धातोरिच्छाया सन् वा स्यादिति फलति । तदाह । इषिकर्मणः इत्यादि ॥ इषिरिच्छा । इषिणा एककर्तृकत्वात् इषिकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः । ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम् । धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत आह । धातोरिति ॥ धातोरिति विहितस्यैव प्रत्ययस्यार्धधातुकत्व, नतु धातो. परस्य । अन्यथा जुगुप्सते इत्यत्र धातोरित्यविहितस्यापि 'गुप्तिज्किद्भ्यः' इति सन आर्धधातुकत्वापत्तौ लघूपधगुणापत्तेरिति भावः । अस्य सन आर्धधातुकत्वे फलमाह । इडिति ॥ द्वित्वमिति ॥ 'सन्यडोः' इत्यनेनेति भाव. । अभ्यासस्य इत्त्वविधि स्मारयति । सन्यतः इति ॥ पठितुमिच्छतीति ॥ भावस्तुमुनर्थः । 'अव्ययकृतो भावे' इत्युक्तेः । धात्वर्थ एव भाव इत्युच्यते । तथाच पठितुमित्यस्य पठनक्रियैवार्थः । तस्मिन् पठने इच्छाकर्मत्व इच्छासमानकर्तृकत्वञ्च सना गम्यते । तथाच स्वकर्तृक पठनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तते इत्युक्त भवति । अथ 'अद भक्षणे' इति धातो. सनि घस्लृभाव स्मारयति । लुङ्सनोर्घस्लृ इति ॥ घस् स इति स्थिते इदमाशङ्क्य आह । एकाचः इति ॥ नेडिति ॥ घस् स इति स्थिते आह । सस्य तत्वमिति ॥ 'सस्स्यार्धधातुके' इत्यनेनेति भावः । जिघत्सतीति ॥ द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः ।