'इस्' इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् । 'द्विर्वचनेऽचि' (सू २२४३) इति न प्रवर्तते ।अञ्जिजिषति । अशिशिषते । 'उभौ साभ्यासस्य' (२६०६) । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । 'पूर्वत्रासिद्धीयमद्वित्वे' इति चछाभ्यां सहितस्येटो द्वित्वम् । 'हलादिः शेषः' (सू २१७९) उचिच्छिषति । निमित्तापाये नैमित्तिकापायः इतित्वनित्यम् । 'च्छ्वोः' (सू २५६१) इति सतुक्कग्रहणाज्ज्ञापकात् । 'प्रकृतिप्रत्यापत्तिवचनाद्वा--' ।
इति इत्त्वम् । अरिरिषतीति ॥ ॠधातोस्सनि इटि रूपम् । रिस्शब्दस्येति ॥ गुणे रपरत्वे 'अजादेर्द्वितीयस्य' इति रिस्इत्यस्य द्वित्वमित्यर्थ । 'ननु द्विर्वचनेऽचि' इति निषेधाद्गुणासम्भवात् रिस् इत्यस्य कथ द्वित्वमित्यत आह । द्विर्वचनेऽचि इति न प्रवर्तते इति ॥ कुत इत्यत आह । कार्यिणो निमित्तत्वायोगादिति ॥ 'नहि कार्यी निमित्ततया आश्रीयते' इति निषेधादिडादेः सनो द्वित्वरूपकार्यिणो न द्वित्वनिमित्तत्वमिति भाव । ननु इडागमः सन्भक्त' । ततश्च इस् इत्यस्य द्वित्वेऽपि समुदायस्य इस इत्यस्य द्वित्वकार्यित्वाभावात् द्वित्वनिमित्तत्वमित्यत आह । इस् इतीति ॥ इस् इति सनोऽवयवो द्वित्वभागिति कृत्वा अवयवद्वारा इस इति समुदायस्य कार्यित्वमिति भाव । आञ्जिजिषतीति ॥ अञ्जेस्सनि इटि 'न न्द्राः' इति नकारस्य निषेधात् जिस् इत्यस्य द्वित्वम् । ऊदित्त्वादिड्विकल्पे प्राप्ते नित्यमिट् । आशिशिषते इति ॥ 'अशू व्याप्तौ' ऊदित्त्वादिड्विकल्पे प्राप्ते नित्यमिट् । अश भोजने इति क्र्यादिस्तु नित्य सेडेव । उच्छेरिति ॥ 'उच्छी विवासे' । अत्र 'छे च' इति तुगित्यर्थ । श्चुत्वमिति ॥ तुक इति शेषः ।ननु उच्छ् इस इति स्थिते श्चुत्वस्यासिद्धत्वात्तकारसहितस्य द्वित्वे अभ्यासे तकार. श्रूयेत इत्यत आह । पूर्वत्रेत्यादि ॥हलादिः शेषः इति ॥ च्छिस् इत्यस्य द्वित्वे हलादिशेषादभ्यासे छकारसकारयोनिवृत्तौ तुकश्चकारः इकारश्च शिष्यते इत्यर्थः । तदाह । उचिच्छिषतीति ॥ उत्तरखण्डे छकारे परे इकारस्य तुकश्चुत्वेन चकारः । ननु च्छिस् इत्यस्य द्वित्वे हलादिशेषात्पूर्वखण्डे छकारसकारयोर्निवृत्तौ 'निमित्तापाये नैमित्तिकस्याप्यपाय' इति न्यायेन तुकोऽपि निवृत्तेस्तदादेशचकारस्य कथमभ्यासे श्रवणमित्यत आह । निमित्तापाये इति ॥ कथमनित्यत्वमित्यत आह । च्छ्वोरिति ॥ पृष्टः, पृष्टवानित्यादौ प्रच्छेः चकारस्य 'च्छ्वोः' इति शकारे व्रश्चादिना शस्य षत्वे तुक्चकारस्य श्रवणप्राप्तौ तन्निवृत्त्यर्थं सतुक्कग्रहणम् । तत्र चकारस्य शकारे सति निमित्ताभावादेव तुकोऽपि निवृत्तिसिद्धेस्सतुक्कग्रहण व्यर्थमापद्यमान 'निमित्तापाये' इत्यस्यानित्यतां ज्ञापयतीत्यर्थः । प्रकृतिप्रत्यापत्तिवचनाद्वेति ॥ 'हनश्च वधः' इति हनधातोरप्प्रत्यये प्रकृतेर्वधादेशे वधशब्दः । कंसवधमाचष्टे कंसङ्घातयतीत्यादौ 'आख्यानात्कृतस्तदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्ति.' इति अप्प्रत्ययस्य लुकि प्रकृतेर्वधादेशनिवृत्तिर्विहिता । तत्र कृतो लुकि निमित्तापायादेव वधाद्यादेशनिवृत्तिसिद्धेः प्रकृतिप्रत्यापत्तिवचनं व्यर्थमापद्यमान 'निमित्तापाये' इत्यस्य अनित्यतां ज्ञापयतीत्यर्थः । यद्यप्यत्र वधशब्दे अप्प्रत्ययः वधादेशश्च युगपद्विहितः, नतु प्रत्यये परे । 43