पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३४१
बालमनोरमा ।

इत्यनुषज्यते । अर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तात्सन्न । स्वार्थसन्नन्तात्तु स्यादेव । जुगुप्सिषते । मीमांसिषते ।

इति तिङन्तसन्प्रकरणम् ।

। श्रीरस्तु ।

॥ अथ तिङन्तयङ्प्रकरणम् ॥

२६२९ । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् । (३-१-२२)

पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः तस्मिन्द्योत्ये यङ् स्यात् ।

२६३० । गुणो यङ्लुकोः । (७-४-८२)

अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । 'सनाद्यन्ताः--' (सू २६०४) इति धातुत्वाल्लडादयः । ङिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । 'धातोः' किम् ।


मपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह । अर्थद्वारेति ॥ शब्दस्वरूपतो वैरूप्यस्य सम्भवादर्थद्वारकमेव सारूप्य विवक्षितमिति भाव । तेनेति ॥ इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थ । स्वार्थेति ॥ स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया

बालमनोरमायां सन्नन्तनिरूपण समाप्तम् ।

अथ यङ्प्रक्रियाः निरूप्यन्ते । धातोरेकाचो ॥ तस्मिन्द्योत्ये इति ॥ वाच्यत्वे तु प्रत्ययवाच्यस्य प्रधानतया सन्नन्ते इच्छाया इव तस्य विशेष्यत्वं स्यादिति भावः । गुणो यङ्लुकोः ॥ यङ् च लुक्च इति द्वन्द्वात् सप्तमी । लुगिह यङ एव विवक्षितः उपस्थितत्वात् । 'अत्र लोप.' इत्यतः अभ्यासस्येत्यनुवर्तते । तदाह । अभ्यासस्येति ॥ इक्परिभाषया इगन्तस्येति लभ्यते । बोभूयते इति ॥ 'सन्यङोः' इति द्वित्वम् । यङो द्वित्वादूकारस्य न गुणः । बोभूय इत्यस्माल्लटि तिपि शपि पररूपम् । 'क्रियासमभिहारे द्वे वाच्ये' इति पुनर्द्वित्वन्तु न । तस्य 'क्रियासमभि-