पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथ तिङन्तनामधातुप्रकरणम् ॥

२६५७ । सुप आत्मनः क्यच् । (३-१-८)

इषिकर्मणः एषितृसम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच्प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ।

२६५८ । क्यचि च । (७-४-३३)

अस्य ईत् स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । 'वान्तो यि प्रत्यये' (सू ६३) गव्यति । नाव्यति । 'लोपः शाकल्यस्य' (सू ६७) इति तु न । अपदान्तत्वात् । तथा हि ।


अथ नामधातुप्रक्रियाः निरूप्यन्ते । सुप आत्मनः क्यच् ॥ प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते । 'धातोः कर्मणः' इति सूत्रात्कर्मणः इच्छाया वेत्यनुवर्तते । कर्मण इति पञ्चमी । कर्मकारकादिति लभ्यते । सन्निधानादिच्छाम्प्रत्येव कर्मत्वं विवक्षितम् । आत्मन्शब्दः स्वपर्यायः । तादर्थ्यस्य शेषत्वविवक्षायां षष्ठी । स्वार्थात्कर्मण इति लभ्यते । स्वश्च इच्छाया सन्निधापितत्वादेषितैव विवक्षितः । तथाच स्वस्मै यदिष्यते कर्मकारक तद्वृत्तेस्सुबन्तादिच्छाया क्यज्वा स्यादिति फलति । तदिदमभिप्रेत्य आह । इषिकर्मणः एषितृसम्बन्धिनः इत्यादिना ॥ एषित्रर्थादिषिकर्मण इत्यर्थः । एषित्रा स्वार्थ यदिष्यते कर्मकारक तद्वाचकात्सुबन्तादिति यावत् । धात्ववयवत्वादिति ॥ सुबन्तात् क्यचि कृते तदन्तस्य सनाद्यन्ताः इति धातुत्वादिति भावः । क्यचि च ॥ 'अस्य च्वौ' इत्यनुवर्तते । 'ई घ्राध्मोः' इत्यत ईग्रहणञ्चेति मत्वा शेषम्पूरयति । अस्येति ॥ अकारस्येत्यर्थः । पुत्रीयतीति ॥ क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीय इति धातोर्लडादिरित्यर्थः । आत्मनः किम् । राज्ञः पुत्रमिच्छति । पदविधित्वेन समर्थपरिभाषायाः प्रवृत्तेर्महान्त पुत्रमिच्छतीत्यत्र पुत्रशब्दान्नक्यच् । गव्यतीति ॥ गामात्मन इच्छतीत्यर्थः । नाव्यतीति ॥ नावमात्मन इच्छतीत्यर्थः । अपदान्तत्वादिति ॥ 'लोपः शाकल्यस्य' इत्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वर्तिविभक्तया पदत्वमस्येवेत्यत आह । तथा हीति ॥ यथा पदत्वन्न भवति तथोच्यते इत्यर्थः ।