पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७३
बालमनोरमा ।

विभाषया' (वा १७१९-२०) । कृष्ण इवाचरति कृष्णायते । ओजश्शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते-यशस्यते । विद्वायते-विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । 'क्यङ्-मानिनोश्च' (सू ८३७) कुमारीवाचरति कुमारायते । हरिणीवाचरति हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्व्याविव पट्वीमृदूयते । 'न कोपधायाः' (सू ८३८) । पाचिकायते । 'आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा' (वा १७२१) ।


श्शब्दः इति ॥ क्यङन्तोऽयम् । सनाद्यन्ता इति धातुत्वाद्वृत्ति. । तत्र ओजश्शब्दः ओजस्विनि वर्तत इत्यर्थ । ओजायते इति ॥ ओजस्वीवाचरतीत्यर्थः । ओजश्शब्दात् क्यङि सलोपे 'अकृत्सार्व' इति दीर्घ इति भावः । अप्सरायते इति ॥ अप्सरशब्दात् क्यङि सलोपदीर्घौ । क्यङो डित्त्वादात्मनेपदम् । इतरेषा विभाषयेत्यस्योदाहरति । यशायते-यशस्यते इति ॥ यशस्वीवाचरतीत्यर्थ. । विद्वायते-विद्वस्यते इति ॥ विद्वानिवाचरतीत्यर्थ । विद्वच्छब्दात् क्यङि सलोपविकल्पः । त्वद्यते । मद्यते इति ॥ त्वमिव अहमिव आचरतीत्यर्थः । युष्मदस्मच्छब्दात् क्यङि 'प्रत्ययोत्तरपरयोश्च' इति मपर्यन्तस्य त्वमौ । युष्मद्यते । अस्मद्यते इति ॥ यूयमिव वयमिव आचरतीत्यर्थः । 'त्वमावेकवचने' इत्यस्मात् 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे एकवचने इत्यनुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मदोस्त्वमाविति भावः । कुमार्यादिशब्दात् क्यङि पुवत्त्व स्मारयति । क्यङ् मानिनोश्चेति । कुमारायते इति ॥ पुवत्त्वेन ङीषो निवृत्तौ दीर्घ. । हरितायते इति ॥ हरिणीशब्दात् क्यङि पुवत्त्वेन 'वर्णादनुदात्तात्' इति नत्वस्य ङीषश्च निवृत्तौ दीर्घ । गुरूयते इति ॥ गुर्वीशब्दात् क्यङि ङीषो निवृत्तौ दीर्घ. । सपत्नायते इति ॥ शत्रुपर्यायात् सपत्नशब्दात् शार्ङ्गरवादित्वेन ङीनन्तात् पुवत्त्वेन ङीनो निवृत्तौ दीर्घ इति भाव । सपतीयते इति ॥ समानः पति स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च सपत्नीशब्दात् क्यङि पुवत्त्वेन ङीत्वनत्वयोर्निवृत्तौ दीर्घ इति भाव. । सपत्नीयते इति ॥ विवाहनिबन्धन पतिशब्दमाश्रित्य समान. पति: यस्या इति बहुव्रीहौ सपत्नीशब्दस्य नित्यस्त्रीलिङ्गत्वान्न पुवत्त्वमिति भावः । युवायते इति ॥ युवतिशब्दात् क्यङि पुवत्त्वे तिप्रत्ययस्य निवृत्तौ नलोपे दीर्घ इति भाव . । वयोवाचिनाञ्जातिकार्य वैकल्पिकमिति 'जातेरस्त्रीविषयात्' इत्यत्र भाष्ये स्पष्टम् । एतेन 'जातेश्च इति निषेधादिह पुवत्त्व दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् । पट्वीमृदूयते इति ॥ इह पूर्वपदस्य क्यङ्परकत्वाभावान्न पुवत्त्वम् । ननु पाचिकेवाचरति पाचिकायते इत्यत्रापि 'क्यङ्मानिनोश्च' इति पुवत्त्वेन टाप 'प्रत्ययस्थात्' इति इत्त्वस्य च निवृत्तौ पाचकायते इति स्यादित्यत आह । न कोपधायाः इति ॥ 'आचारेऽवगल्भक्लीबहोडेभ्य. किब्वा' इति वार्तिकम् । उपमानादित्यनुवर्तते । 'धातोः कर्मणः' इत्यतो वाग्रहणस्यास्मिन्प्रकरणे अनुवृत्त्यैव सिद्धे वाग्रहण व्यर्थमित्यत आह । वा-