पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
[नामधातु
सिद्धान्तकौमुदीसहिता

इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति । तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति-लोहिनीयते ।

२६७० । कष्टाय क्रमणे । (३-१-१४)

चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहते इत्यर्थः । 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्' (१७६१) । कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चीकिर्षतीत्यस्वपदविग्रहः सत्रायते । कक्षायते इत्यादि ।

२६७१ । कर्मणो रोमन्थतपोभ्यां वर्तिचरोः । (३-१-१५)


इत्यत आह । डाजन्तादिति ॥ तद्भाष्येति ॥ 'भृशादिष्वितराणि' इत्युक्तवार्तिक तद्भाष्यविरुद्धमित्यर्थः । तस्मादिति ॥ उक्तवार्तिकभाष्यविरोधात् तेभ्यः श्यामादिभ्यः भृशादित्वलक्षणः क्यडेव नतु क्यषित्यर्थः । ततश्च 'वा क्यषः' इत्यस्याप्रवृत्तेः डित्त्वादात्मनेपदमेवेति मत्वा आह । श्यामायते इति ॥ श्यामो भवतीत्यर्थ.। ननु देवदत्तस्सुखायते इति कथ । देवदत्तस्य सुखत्वाभावादित्यत आह । सुखादयः इति ॥ श्यामादिषु ये सुखदुःखादिशब्दा गुणवचना ते सुखादिगुणवति वर्तन्ते इत्यर्थः । एवञ्च सुखायते इत्यत्र सुखवान् भवतीत्यर्थः । एव दुःखायते इत्यादावपि । ननु लोहितशब्दाद्विहित क्यष् कथं लोहिनीशब्दात् स्यादित्यत आह । लिङ्गविशिष्टेति ॥ कष्टाय क्रमणे ॥ क्रमणशब्द विवृणोति । उत्साहे इति ॥ अस्वरितत्वात् क्यषिति नानुवर्तते इति भाव. । क्रियार्थोपपदस्येति चतुर्थीति मत्वा आह । पापङ्कर्तुमिति ॥ क्रमते इत्यत्र 'वृतिसर्गतायनेषु क्रमः' इति तड् । 'कण्वचिकीर्षायाम्' इत्यत्र कण्वपद व्याचष्टे । कण्वं पापमिति ॥ सत्रादिशब्दान् विवृणोति । सत्रादयः इति ॥ द्वितीयान्तेभ्यः इति ॥ चिकीर्षाया द्वितीयान्तस्यैवान्वययोग्यत्वादिति भाव । कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः । केचित्तु कण्वेत्यविभक्तिकम् । कण्ववर्तिभ्यः इति व्याचक्षते । अस्वपदविग्रहः इति ॥ वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः । इदं कण्वशब्दादन्यत्रैव । कष्टाय क्रमते इति तु स्वपदविग्रहोऽस्त्येव । भाष्ये एव विग्रह प्रदर्श्य सत्रादिषु विग्रहाप्रदर्शनादित्याहुः । कर्मणो रोमन्थ ॥ वृतुधातोर्ण्यन्तात् 'धात्वर्थनिर्देशे इग्वक्तव्यः' इति इकि वर्तिशब्दः । आवर्तनमर्थः । चरेस्सम्पदादित्वाद्भावे क्विप् । वर्ति चर अनयोर्द्वन्द्वात्सप्तमी । आवर्तने चरणे चेति लभ्यते । कर्मशब्देन कर्मकारकं विवक्षितम् । द्वित्वे एकवचनम् । तथाच कर्मकारकवृत्तिभ्यां रोमन्थतपश्शब्दाभ्यामिति लभ्यते । यथा-