पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२१९
बालमनोरमा ।

वशिता । वष्टु-उष्टात् । उष्टाम् । उड्ढि । अवट् औष्टाम् । औशन् । अवशम्। उश्याताम् । उश्यास्ताम् । 'चर्करीतं च ' (ग सू १९५) | यङलुगन्तमदादौ बोध्यम् । ह्नुङ् १०८२ अपनयने । ह्नुते । जुह्नुवे । ह्नुवीत । ह्नोषीष्ट । अह्नोष्ट|

इति तिङन्तादादिप्रकरणम्


अकिति 'लिट्यभ्यासस्य' इति सम्प्रसारणमिति भावः । ऊशतुरिति ॥ परत्वाद्गहिज्येति सम्ग्रसारणे कृते द्वित्वे हलादिशेवे सवर्णदीर्घ इति भावः | उवशिथ | ऊशथुः | ऊश | उवाश-उवश | ऊशिव | ऊशिम | वशितेति ॥ अनेन सेट्त्वन्द्योतितम् । वशिष्यति | उष्टामिति ॥ उशन्त्वित्यपि ज्ञेयम् । उड्ढीति ॥ वश् हि इति स्थिते धिभावे अपित्त्वेन डित्त्वात् ग्रहिज्येति सम्प्रसारणे शस्य षत्वे धस्य ष्टुत्वेन ढकारे षस्य जश्त्वेन ड इति भाव: | वशानि । वशाव । वशाम | लङ्याह । अवडिति ॥ हल्ड्यादिलोपे शस्य षः षस्य डः तस्य चर्त्वविकल्प इति भाव | औशन्निति ॥ अवट् । औष्टम् । औष्ट । अवशमिति ॥ पित्त्वान्न सम्प्रसारणमिति भावः । औश्व । औश्म। विध्याशीर्लिङो. उश्यादिति सिद्धवत्कृत्य आह । उश्याताम् | उश्यास्तामिति ॥ अवशीत्-अवाशीत् । अवशिष्यत् । तदेव दीधीङ वेवीड् षस षस्ति वश एते पञ्चधातव छान्दसा एवेति माधवादय | तत्र 'दीधीवेवीटाम्' इति सूत्रे दीधीवेव्यो छन्दोविषयत्वादिति भाष्यम् । ‘जक्षित्यादय. षट्’ इति सूत्रे षसिवशी छान्दसाविति भाष्यम् । एतद्भाष्यादेव षस्तिधातोर्नात्र पाठ इति प्रतीयते । अत एव 'षसशास्ति स्वप्ने' इति पाठमभ्युपगम्य श्तिपा निर्देशेन शास एवार्थभेदात् पुनः पाठ इति कैयट आह । अत्र शासधातोरपि छान्दसवचन प्रायिकम् । वष्टि भागुरिरल्लोपम् | 'जयाय सेनान्यमुशन्ति देवाः इत्यादि प्रयोगदर्शनादित्यास्तान्तावत् । चर्करीतञ्चेति ॥ धातुपाठे गणसूत्रमिदम् । 'चर्करीतम्' इति यङ्ल्लुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा । तदाह । यङ्लुगन्तमदादाविति ॥ तेन यङ्लुगन्ताच्छबेव विकरण: तस्य लुक् न तु श्यनादि विकरणान्तरम् परस्मैपदिन इत्युपक्रमाद्यङ्लुगन्तस्य परस्मैपदित्वमेव । ह्नुङ् अपनयने इति ॥ अनिडयम् | ह्नुते इति ॥ ह्नुवाते । ह्नुवते । इत्यादि । जुह्नुवे इति ॥ जुह्नुवाते । जुह्नुविरे । क्रादिनियमादिट् । जुह्नुविषे । जुह्नुविवहे । ह्नोता । ह्नोष्यते । ह्नुताम् । ह्नुष्व । ह्नवै । ह्नवावहै । अह्नुत | इति सिद्धवत्कृत्यविधिलिङ्याह । ह्नुवीतेति आशीर्लिंङ्याह । ह्नोषीष्टेति ॥ लुड्याह | अह्नोष्टेति ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदी-

व्याख्यायां बालमनोरमायां लुग्विकरणं समाप्तम्