पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३८७
बालमनोरमा ।

पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोप: । अपिप्रथत्-अपप्रथत् । मृदुं म्रदयति । अमम्रदत् । भृशं कृशं दृढं भ्रशयति क्रशयति द्रढयति । अबभ्रशत् अचक्रशत् अदद्रढत् । परिब्रढयति । पर्यबब्रढत् । ऊढिमाख्यत् । औजिढत् ।ढत्वादीनामसिद्धत्वात् हतिशब्दस्य द्वित्वम् । 'पूर्वत्रासिद्धीयमद्वित्वे' इति त्वनित्यमित्युक्तम् । 'ढिशब्दस्य' द्वित्वमित्यन्ये ।औजिढत्-औडिढत् । ऊढमाख्यत् । औजढत्-औडढत् । 'ओः पुयण्--' (सू २५७७ ) इति वर्गप्रत्याहारजग्रहो लिङ्गं 'द्वित्वे कार्ये णावच आदेशो न' इति ऊनयता-


त्त्वात् पुवत्त्वेन स्त्रियामित्यनुवृत्तौ 'अतश्च' इति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दारदयतीति रूप सिध्द्यति । पुवद्भावे तु दरद्शब्दस्य टिलोपे सति दरयतीति स्यादिति भाव । टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धि । 'पृथु मृदु भृशञ्चैव कृशञ्च दृढमेव च । परिपूर्व बृढञ्चैव षडेतात्रविधो स्मरेत् ॥' इति क्रमेणोदाहरति । पृथुमिति ॥ आचष्टे इति शेष. । प्रथयति । तत्र प्रक्रियां दर्शयति । वृद्धौ सत्यामिति ॥ पृथु इ इति स्थिते परत्वाद्वृद्धौ कृताया टिलोप । अथवा कृतायामकृतायाञ्च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धेः प्राक् टिलोपः । उभयधापि 'र ॠत' इति रभावे प्रथयतीति रूपमिति भावः । वस्तुतस्तु अकृताया वृद्धौ उकारस्य लोप.। कृतायान्तु औकारस्य लोप. । तथा च 'शब्दान्तरस्य प्राप्नुवन् विधिरनित्य.' इति टिलोप. अनित्य । ततश्च परत्वात् टिलोपात् प्राग्वृद्धिरेवेति 'मुण्डमिश्र' इति सूत्रे भाष्ये स्थितम् । वृद्धौ सत्यां पूर्व वा टिलोप इति मूलन्तु कृताकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्द्यम् । अपिप्रथदिति ॥ वृद्धौ सत्या टिलोपे अग्लोपित्वाभावात् सन्वत्त्वे 'सन्यत' इति इत्त्वे 'दीर्घो लघो.' इति दीर्घ इति भावः । अपप्रथदिति ॥ वृद्धेः पूर्व टिलोपेन उकारस्य निवृत्तावग्लोपित्वात् सन्वत्त्वाभावे रूपम् । अबभ्रशदित्यादौ वृद्धेः पूर्व टिलोपे अग्लापत्वान्न सन्वत्त्वमिति भाव: । वृद्धौ सत्यां टिलोपे तु अबिभ्रशदित्याद्यूह्यम् । औजिढदिति ॥ ऊहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढि तस्मात् णौ टिलोपे ऊढि इति ण्यन्ताल्लुडि चडि आटि वृद्धौ औढि अ त् इति स्थिते प्रक्रियां दर्शयति । ढत्वादीनामिति ॥ ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् 'अजादेर्द्वितीयस्य' इति ह्ति शब्दस्य द्वित्वमित्यर्थ । इत्युक्तमिति ॥ लुग्विकरणप्रक्रियायां ऊर्णुञ्धाताविति शेषः । एवञ्च ह्तिशब्दस्य द्वित्वे हलादिशेषे 'कुहोश्चुः' इति हस्य चुत्वमिति भाव. । ढिशब्दस्येति ॥ 'पूर्वत्रासिद्धीयमद्वित्वे' इत्यस्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाभावादिति भावः । ऊढमाख्यदिति ॥ ऊहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दात् ण्यन्ताल्लुडि चडि ढत्वादीनामसिद्धत्वात् ह्तेत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम् । औडढदिति ॥ 'पूर्वत्रासिद्धीयमद्वित्वे' इति ढत्वादीनामसिद्धत्वाभावपक्षे ढशब्दस्य द्वित्वे रूपम् । नन्विह परत्वात् टिलोपे सति णिच्सहितस्य ह्तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह । ओः पुयणित्यादि ॥ खशब्दाण्णिचि टिलोपमाशङ्कय आह ।