पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३९१
बालमनोरमा ।

न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाह्रस्वो न । अतितिरायत् । सध्र्यञ्चमाचष्टे सध्राययति । अससध्रायत् । विष्वद्य्रञ्चम् अविविष्वद्रायत् । देवद्य्रञ्चम् अदिदेवद्रायत् । अदद्य्रञ्चम् आददद्रायत् । अदमुयञ्चम् अदमुआययति । आददमुआयत् । अमुमुयञ्चम् अमुमुआययति । चङ् । अमुमुआयत् । भुवं भावयति । अबीभवत् । भ्रुवम् । अबुभ्रवत् । श्रियम् अशिश्रयत् । गाम् अजूगवत् । रायम् अरीरयत् । नावम् अनूनवत् । स्वश्वं स्वाशश्वत् । स्वः । अव्ययानां भमात्रे टिलोपः । स्वयति । असस्वत्-


त्वादित्यर्थः । अङ्गवृत्तपरिभाषया वेति ॥ पुनष्टिलोपो नेत्यनुषज्यते । न च तिरेरिकारस्याङ्गवृत्तपरिभाषया टेरिति लोपाभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम् । अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्ते. । अग्लोपित्वादिति ॥ तिरस् अच् इ इति स्थिते 'टे' इत्यतो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम् अचो धातोर्लोपे अकारस्यापि लोपसत्वादित्यभिमानः । सद्ध्राययतीति ॥ सहस्य सध्रि । तिराययतीतिवद्रूपम् । सहेत्यस्य उपसर्गत्वाभावान्न पृथक्करणम् । तदाह । अससध्रायदिति ॥ विष्वद्य्रञ्चमिति ॥ विष्वक् अच् इ इति स्थिते 'विष्वग्देवयोश्च' इति विष्वक्शब्दटेरद्य्रादेशे टेरित्यचोधातोर्लोपे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वद्रायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् । देवद्य्रञ्चमिति ॥ देवशब्दस्य टेरद्य्रादेशे देवद्राययतीति सिद्धवत्कृत्य लुड्याह । अदिदेवद्रायदिति ॥ अतितिरायदितिवद्रूपम् । आददद्रायदिति ॥ सर्वनामस्थानत्वाददस्शब्दस्य टेरद्य्रादेशः । त्यदाद्यत्वे सत्येव उत्त्वमत्त्वे इति पक्षे इदम् । अदस्शब्दाद्विभक्ते लुका लुप्तत्वेन विभक्तिपरकत्वाभावेन त्यदाद्यत्वाप्रवृत्तेः । त्यदाद्यत्वाविषयत्वेऽपि उत्त्वमत्त्वे स्त इति मतमाश्रित्य आह । अमुमुयंचमिति ॥ अदस् अच् इ इति स्थिते टेरद्य्रादेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थिते 'अदसोऽद्रेः पृथङ्मुत्वम्' इति मते दकाराकारयोर्दकाररेफयोश्च मत्वोत्त्वयोः कृतयो: अमुमु इ इति स्थिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयि इति ण्यन्ताल्लडादीति भाव । मुत्वस्यासिद्धत्वान्न यण् । अदमुआयतीति ॥ 'केचिदन्त्यसदेशस्य' इति मते इदम् । भुवमिति ॥ भुवमाचष्टे इत्यर्थे भूशब्दात् णिच् वृध्द्यावादेशौ भावि इत्यस्माल्लडादीति भावः । अबीभवदिति ॥ 'ओः पुयण्जि' इति इत्त्वम्। अबुभ्रवदिति ॥ 'अचिश्नुधातु' इति उवड् । अवर्णपरत्वाभावात् 'ओः पुयण्जि' इति न । स्वश्वमिति ॥ सु शोभनः अश्वः इति विग्रहः । स्वाशश्वदिति ॥ उपसर्गसमानाकारस्य पृथक्करणादश्वशब्दस्य 'अजादेर्द्वितीयस्य' इति द्वित्वमाडागमश्च । स्वरिति ॥ स्वर् इत्यस्माण्णिचि 'अव्ययानाम्भमात्रे' इति टिलोपः । इष्ठवत्त्वेन भत्वात् 'प्रकृत्यैकाच्' इति प्रकृतिभावस्तु येननाप्राप्तिन्यायेन टेरित्यस्यैव बाधकः । असस्वदिति ॥ द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपम्बाधित्वा स्वर्शब्दस्य द्वित्वम् । अरित्यस्य लोपे अकारस्यापि लोपसत्त्वेन