॥ श्रीरस्तु ॥
॥अथ तिङन्तजुहोत्यादिप्रकरणम् ॥
हु १०८३ दानादनयोः । 'आदाने च' इत्येके । 'प्रीणनेऽपि' इति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः |
२४८९ । जुहोत्यादिभ्यः श्लुः । (२-४-७५)
शपः श्लुः स्यात् ।
२४९० । श्लौ । (६-१-१०)
धातोर्द्वे स्तः । जुहोति । जुहुत: । 'अद्भ्यस्तात्' (सू २४७९) इत्यत् । 'हुश्नुवोः-' (सू २३८७) इति यण् । जुह्वति ।
२४९१ । भीह्रीभृहुवां श्लुवच्च । (३-१-३९)
एतेभ्यो लिट्याम्वा स्यात् आमि श्लाविव कार्यं च । जुहवाञ्चकार। जुहाव।
अथ श्लुविकरणा धातवो निरूप्यन्ते । हु दानादनयोरिति ॥ दाने अदने चेत्यर्थः । भाष्यमिति ॥ 'तृतीया च होश्छन्दसि ' इति सूत्रस्थमिति शेषः । ननु यदि दानमिह प्रसिद्ध विवक्षितं तर्हि ब्राह्मणाय गा ददातीत्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह । दानं चेह प्रक्षेपः इति ॥ नन्वेवमपि कूपे घटम्प्रक्षिपति आहवनीये जलम्प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोग. स्यादित्यत आह । स चेति ॥ सः प्रक्षेपः विधिबोधिते आधारे आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः । कुत इत्यत आह । स्वभावादिति ॥ अनादिसिद्धलोकव्यवहारादित्यर्थः । तथाच विधिबोधिते आधारे विधिबोधितस्य हविषो देवतायै त्यज्यमानस्य हविषः प्रक्षेपे हुधातुर्वर्तते इति फलितम् । एतच्च पूर्वमीमांसायां तृतीये “सर्वप्रदान हविषस्तदर्थत्वात्” इत्यधिकरणे अध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । जुहोत्यादिभ्यः श्लुः ॥ शपः इति ॥ 'अदिप्रभृतिभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु ति इति स्थिते । श्लौ ॥ शेषम्पूरयति । धातोर्द्वे स्तः इति ॥ 'एकाचो द्वे' इत्यतः 'लिटि धातोः' इत्यतश्च तदनुवृत्तेरिति भावः । द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह । जुहोतीति । यणिति ॥ उवङपवाद इत्यर्थः । भीह्री ॥ भी ह्री भृ हु