गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुने । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । 'एषु' किम् । कटं करोति ।
२७०६ । अधेः प्रसहने । (१-३-३३)
प्रसहनं क्षमाभिभवश्च । 'षह मर्षणेऽभिभवे च' इति पाठात् । शत्रुमधिकुरुते । क्षमते इत्यर्थः । अभिभवतीति वा ।
२७०७ । वेः शब्दकर्मणः । (१-३-३४)
स्वरान्विकुरुते । उच्चारयतीत्यर्थः । 'शब्दकर्मणः' किम् । चित्तं विकरोति कामः ।
२७०८ । अकर्मकाच्च । (१-३-३५)
वेः कृञः' इत्येव । छात्राः विकुर्वते | विकारं लभन्ते ।
सेति ॥ गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भाव. । सूचयतीति ॥ परदोषमाविष्करोतीत्यर्थः । नन्वेव सति कथमस्य गन्धने वृत्ति । हिंसायाः असत्त्वादित्यत आह । सूचनं हीति ॥ श्येनो वर्तिकामिति ॥ वर्तिका शकुनिविशेष । साहसिक्ये उदाहरति । परदारान् प्रकुरुते इति ॥ साहसप्रवृत्तिविषयीकरोतीत्यर्थ । सहसा वर्तते साहसिक । 'ओजस्सहोऽम्भसा वर्तते' इति ठक् । तस्य कर्म असमीक्ष्यकरण साहासिक्यम् । तदाह । तेषु सहसा प्रवर्तते इति ॥ फलितार्थकथनमिदम् । साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः । अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्द्यम् । प्रतियत्ने उदाहरति । एधोदकस्योपस्कुरुते इति ॥ एधशब्द. अदन्तः 'अवोदैधौद्मप्रश्रथहिमश्रथाः' इति सूत्रे निपातितः । एधश्च उदकञ्चेति समाहारद्वन्द्वः । यद्वा एधस्शब्दस्सकारान्तो नपुंसकलिङ्गः । एधश्च दकञ्चेति विग्रहः दकशब्दः उदकवाची प्रोक्तः प्राज्ञैः । 'जीवनममृतञ्जीवनीय दकञ्च' इति हलायुधः । 'काष्ठन्दर्विन्धनन्त्वेध इध्ममेधस्समित् स्त्रियाम्' इत्यमर. । प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह । गुणमाधत्ते इति ॥ काष्ठस्य शेषणादिगुणाधानं । दकस्य तु गन्धद्रव्यसम्पर्कजनितगन्धाधानम् । अधेः प्रसहने ॥ अधे परस्मात् कृञ प्रसहनवृत्तेरात्मनेपदमित्यर्थ । वेः शब्दकर्मणः ॥ शब्द. कर्मकारक यस्य तस्मात् कृञो विपूर्वादात्मनेपदमित्यर्थः । अकर्मकाच्च ॥ वेः कृञ इत्येवेति ॥ तथाच अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः । विकुर्वते इत्येतद्व्याचष्टे । विकारं लभन्ते इति ॥ लाभे विकारस्य कर्मत्वेऽपि धात्वर्थोपसङ्ग्र-