पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४१३
बालमनोरमा ।

अवगिरते । 'गृणातिस्त्ववपूर्वो न प्रयुज्यत एव' इति भाष्यम् ।

२७२५ । समः प्रतिज्ञाने । (१-३-५२)

शब्दं नित्यं सङ्गिरते । प्रतिजानीते इत्यर्थः । 'प्रतिज्ञाने' किम् । सङ्गिरति ग्रासम् ।

२७२६ । उदश्चरः सकर्मकात् । (१-३-५३)

धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः 'सकर्मकात्' किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ।

२७२७ । समस्तृतीयायुक्तात् । (१-३-५४)

रथेन सञ्चरते ।

२७२८ । दाणश्च सा चेच्चतुर्थ्यर्थे । (१-३-५५)

सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुत्तं स्यात् सा च तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे 'समः' इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ।


तदनित्यत्वे इदमेव मानम् । अवगिरते इति ॥ शविकरणोऽयम् । अवगृणातीत्यत्राप्यात्मनेपदमाशङ्क्य आह । गृणातिस्त्विति ॥ एवञ्च तुदादेरेव ग्रहणमिति भावः । समः प्रतिज्ञाने ॥ गिरतेरात्मनेपदमित्यर्थः । प्रतिज्ञानम् अभ्युपगमः । सङ्गिरति ग्रासमिति ॥ भक्षयतीत्यर्थः ॥ उदश्चरः ॥ उत्पूर्वाच्चरधातोस्सकर्मकादात्मनेपदमित्यर्थः । समस्तृतीया ॥ सकर्मकादिति निवृत्तम् । सम्पूर्वात् तृतीयान्तसमभिव्याहृताच्चरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् । रथिकाः सञ्चरन्ति । अत्र यद्यपि रथेनेत्यर्थाद्गम्यते । तथापि तृतीयान्तश्रवणाभावान्नात्मनेपदम् । एतदर्थमेव योगग्रहणम् । अन्यथा तृतीययेत्यवक्ष्यत् । सकर्मकादप्येतदात्मनेपदम्भवति । अविशेषात् । अत एव तृतीयायुक्तादिति किम् । 'उभौ लोकौ सञ्चरसीमञ्चामुञ्च लोकम्' इति भाष्य सङ्गच्छते । दाणश्च सा ॥ 'समस्तृतीयायुक्तात्' इत्यनुवर्तते । तदाह । सम्पूर्वादिति ॥ उक्तं स्यादिति ॥ आत्मनेपदमित्यर्थ.। सा चेदिति ॥ तच्छब्देन तृतीया परामृश्यते । तदाह । तृतीया चेदिति ॥ दास्या संयच्छते इति ॥ आशिष्टव्यवहारे दाण. प्रयोगे चतुर्थ्यर्थे तृतीया वाच्येति तृतीया । ननु रथेन समुदाचरते इत्यत्र 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्य न प्रवृत्तिः । आडा व्यवहितत्वेन सम्पूर्व कत्वाभावात् 'तस्मादित्युत्तरस्य' इति परिभाषया सम इति पञ्चम्या. चरे. अव्यवहितपरत्वलाभात् । तथा दास्यां सम्प्रयच्छते इत्यत्रापि 'दाणश्च सा चेत्' इति कथम्प्रवर्तते । प्रशब्देन व्यवधानादित्यत आह । पूर्वसूत्रे समः इति षष्ठीति ॥ तथाच षष्ठ्या पौर्वापर्यमेव गम्यते ।