भ्यां च उपात्तयोर्द्वयोरपि प्रेषणयोस्त्यागे दर्शयते आरोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षे द्वितीयकक्ष्यायां न तङ् । समानक्रियात्वाभावाण्णिजर्थस्याधिक्यात् । 'अनाध्याने' किम् । स्मरति वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । 'भीस्म्योर्हेतुभये' (सू २५९४) व्याख्यातम् ।
२७३९ । गृधिवञ्च्योः प्रलम्भने । (१-३-६९)
प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते, वञ्चयते वा । 'प्रलम्भने' किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । 'लियः सम्माननशालिनीकरणयोश्च' (सू २५९२) । व्याख्यातम् ।
णिज्भ्यामिति ॥ हेतुमण्णिज्भ्यां तत्प्रकृतिभूतदृशिरुहिभ्याञ्च उपात्तयो प्रेरणयोस्त्यागे सति चाक्षुषज्ञानविषयो भवति भव इति न्यग्भवति हस्तीति चार्थ. पर्यवस्यति । तत्र प्रकृतसूत्रेणात्मनेपदे दर्शयते भवः आरोहयते हस्तीति च सिद्धमित्यर्थः । पश्यन्ति भव भक्ता इति आरोहन्ति हस्तिन हस्तिपका इति च प्रथमकक्ष्यायाङ्कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायाङ्कर्तृत्वात् प्रथमकक्ष्यायां अणौ या क्रिया तस्या एवात्र तृतीयकक्ष्यायां सत्त्वाच्चेति तृतीयकक्ष्यायामुदाहरणे सूत्रप्रवृत्तिरुपपाद्या । नच प्रथमकक्ष्यायाञ्चाक्षुषज्ञानविषयङ्कुर्वन्तीति न्यग्भावयन्तीति प्रकृत्युपात्तस्य प्रेषणाशस्य तृतीयकक्ष्यायां त्यागादणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यशस्य कथं प्रवृत्तिरिति वाच्यम् । सैव चेण्ण्यन्तेनेत्यत्र आधिक्यमात्र व्यवच्छिद्यते, नतु न्यूनत्वमपि इत्यदोषात् । ननु द्वितीयकक्ष्यायामेव कुतो न तडित्यत आह । अस्मिन्पक्षे द्वितीयेति ॥ कुत इत्यत आह । समानक्रियात्वाभावादिति ॥ द्वितीयकक्ष्याया अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यशस्याभावादिति यावत् । तदेवोपपादयति । णिजर्थस्येति ॥ णेरिति किम् । पश्यत्यारोहतीति निवृत्तप्रेषणान्मा भूत् । स्मरति वनगुल्मङ्कोकिलः इति ॥ स्मृतिविषयत्वमापादयतीत्यर्थ । पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितीयतृतीयकक्ष्ययोरप्युपलक्षणम् । तत्र निवृत्तप्रेषणपक्षे स्मरति वनगुल्म इति द्वितीयकक्ष्या । स्मृतिविषयो भवतीत्यर्थः । स्मरति वनगुल्मङ्कोकिल इति तृतीयकक्ष्या । स्मृतिविषयत्वमापादयतीत्यर्थः । अध्द्यारोपितप्रेषणपक्षे त्वेषा द्वितीयकक्ष्या । स्मरन्तम्प्रेरयतीत्यर्थ । स्मरयति वनगुल्मः इति ॥ प्रत्युदाहरणमिदम् । निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा । अध्द्यारोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्द्यम् । 'स्मृ आध्द्याने' इति घाटादिकत्वेन मित्त्वाध्द्रस्वः । विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्देन्दुशेखरेष्वनुसन्धेय । गृधिवञ्च्योः ॥ प्रलम्भनं प्रतारणमिति मत्वा आह । प्रतारणेऽर्थे इति ॥ प्राग्वदिति ॥ आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः । मिथ्योप-