पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथ भावकर्मतिङ्प्रकरणम् ॥

अथ भावकर्मणोर्लडादयः । 'भावकर्मणोः' (सू २६७९) इति तङ्---

२७५६ । सार्वधातुके यक् । (३-१-६१)

धातोर्यक्प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना उत्पादना क्रिया । सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते ।


अथ भावकर्मतिङ्प्रकरण निरूप्यते ॥ 'लः कर्मणि' इत्यत्र सकर्मकेभ्यो धातुभ्य. कर्मणि कर्तरि चव । अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिता' । तेषु कर्तरि लकारा निरूपिताः । अथेदानीं भावकर्मणोर्लकारा निरूप्यन्ते इति प्रतिजानीते । अथ भावकर्मणोर्लडादयः इति ॥ निरूप्यन्ते इति शेषः । तत्र 'शेषात्कर्तरि परस्मैपदम्, अनुपराभ्यां कृञः' इत्यादि परस्मैपदविधिषु प्राप्तेष्वाह । भावकर्मणोरिति । तङिति ॥ सार्वधातुके यक् ॥ धातोरिति ॥ 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । भावकर्मवाचिनीति ॥ 'चिण्भावकर्मणो.' इत्यतस्तदनुवृत्तेरिति भावः । घटस्य भावो घटत्वमित्यादौ प्रकृतिजन्यबोधे प्रकारो भावः । कवेरय भाव इत्यादौ अभिप्रायः । 'भावः पदार्थसत्तायां क्रियाचष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु' इति नानार्थरत्नमाला । 'भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु' इत्यमरः । इह तु 'लः कर्मणि' इत्यत्र भावशब्दो भावनाया यौगिक इत्याह । भावो भावनेति ॥ 'लः कर्मणि' इत्यत्र भावशब्देन भावना विवक्षितेति भावः । भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह । उत्पादनेति ॥ उत्पत्त्यनुकूलो व्यापार इत्यर्थ. । एवञ्च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृध्द्यावादेशयोः भाविशब्दात् 'एरच' इति भावे अचि णिलोपे भावशब्दः भावयतेरुत्पत्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे 'ण्यासश्रन्थो युच्' इति युचि अनादेशे टापि भावनाशब्द इति बोध्द्यम् । उत्पादनाचेय धात्वर्थन्नातिरिच्यते इति दर्शयितुमाह । क्रियेति ॥ धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः । तथाहि फलव्यापारयोर्द्धातुरिति सिद्धान्तः । पचधातोः पाकोऽर्थः । पाको विक्लित्त्य नुकूलव्यापारः । तत्र विक्लित्त्यशः फलम् । अधिश्रयणादिस्तदनुकूलो व्यापारः । तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता । धातूपात्तव्यापाराश्रय. कर्तेति सिद्धान्तात् । अधिश्रयणादिव्यापारजन्या विक्लित्तिः फलम् । तदाश्रयत्वादोदन कर्म । व्यापारजन्यफलशालि कर्मेति सिद्धान्तात् । एव सकर्मकेषु सर्वत्र ज्ञेयम् । 'एध वृद्धौ' इत्यस्मिन्नकर्मकेऽपि वृध्द्यनुकूलव्यापारो धात्वर्थः । नचैव सति एधते देवदत्त इत्यत्र धातूपात्तव्यापाराश्रयत्वाद्व्यापारजन्यवृद्धिरूपफलाश्रयत्वाच्च कर्तृत्व कर्मत्वञ्च स्यादिति वाच्यम् । धातूपात्तव्यापारजन्यतद्व्यापारव्यधिकरणफलाश्रयत्व कर्मत्व-