पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
[जुहोत्यादि
सिद्धान्तकौमुदीसहिता


अददात् । अदत्ताम् । अददुः । दद्यात् | देयात् | अदात् | अदाताम् । अदुः | अदित | डु धाञ् १०९५ धारणपोषणयो: 'दानेऽपि' इत्येके । प्रणिदधाति ।

२५०१ । दधस्तथोश्च । (८-२-३८)

द्विरुक्तस्य झषन्तस्य धाधातोर्बशो भष् स्यात्तथयोः परयोः स्ध्वोश्च परतः । 'वचनसामर्थ्यादालोपो न स्थानिवत्’ इति वामनमाधवौ । वस्तुतस्तु 'पूर्वत्रासिद्धे न स्थानिवत्' धत्त: । दधति । धत्थः । धत्थ । दध्वः । दध्मः । धत्ते । धत्से । धद्ध्वे । धेहि । अधित |


ददतु । ददु । ददिथ-ददाथ । ददथु । दद । ददौ । ददिव । ददिम । ददे । ददाते । ददिरे । ददिपे । ददाथे । ददिध्वे । ददे । ददिवहे । ददिमहे । दाता । दास्यति । दास्यते । ददातु-दत्तात् । दत्ताम् । ददतु । इति सिद्धवत्कृत्य देहि इत्यत्र आह । ध्वसोरिति ॥ दत्तात् । दत्तम् । दत्त । ददानि । ददाव । ददाम । दत्ताम् । ददाताम् । ददताम् । दत्स्व । ददाथाम् । दद्ध्वम् । ददै । ददावहै । ददामहै । लङ्याह । अददादिति । अददुरिति ॥ अभ्यस्तत्वात् जुस् । अददा । अदत्तम् । अदत्त । अददाम् । अदद्व । अदद्म । विधिलिङ्याह । दद्यादिति ॥ 'श्नाभ्यस्तयो' इत्याल्लोपः । आशीर्लिङि तु 'एर्लिङि' इत्येत्त्वमभिप्रेत्य आह । देयादिति ॥ दासीष्ट । लुङ्याह । अदादिति ॥ 'गातिस्था' इति सिचो लुगिति भावः । अदाः । अदातम् । अदात । अदाम् । अदाव । अदाम । लुङ्यात्मनेपदे आह । अदितेति ॥ अदा स् त इति स्थिते 'स्थाध्वोरिच्च' इति दाधातोरन्त्यस्य इकारः सिचः कित्त्वञ्च । कित्त्वान्न गुण: । 'ह्रस्वादङ्गात्' इति सिचो लुगिति भावः । अदिषाताम् । अदिषत । अदिथाः । अदिषाथाम् । अदिढ्वम् । अदिषि । अदिष्वहि । अदिष्महि । अदास्यत् । अदास्यत । डु धाञ् । ञित्त्वादुभयपदी । अनिट् । प्रणिदधातीति ॥ 'नेर्गद' इति णत्वम् । तसि श्लौ द्वित्वे अभ्यासजश्त्वे 'श्नाभ्यस्तयो' इत्याल्लोपे दध् तस् इति स्थिते । दधस्तथोश्च ॥ धाधातोः कृतद्वित्वस्य दधा इत्यस्य दधः इति षष्ठ्यन्तम् । 'एकाचो बशः' इत्यतः झषन्तस्य बशो भष् इत्यनुवर्तते । त थ् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् । तकारादकार उच्चारणार्थ. । तकारथकारयोरिति लभ्यते । चकारात् स्ध्वोरिति समुच्चीयते । सकारे ध्वशब्दे चेति लभ्यते । तदाह । द्विरुक्तस्येत्यादिना ॥ तथाच अभ्यासे दकारस्य धकार. | तकारपरकत्वात् । न तु 'श्नाभ्यस्तयोराल्लोपस्य ‘अचः परस्मिन्’ इति स्थानिवत्त्वान्नतकारपरकत्व, नापि झषन्तत्वमित्यत आह । वचनसामर्थ्यादिति ॥ वस्तुतस्त्विति ॥ भष्भावस्य पूर्वत्रासिद्धीयत्वादेव तस्मिन् कर्तव्ये आल्लोपस्य स्थानिवत्त्वाप्रसत्तेर्वचनसामर्थ्याश्रयणक्लेशो वृथेति भावः । धत्तः इति ॥ धस्य चर्त्वेन त इति भावः । दधतीति ॥ 'अदभ्यस्तात्' इत्यदादेशे 'श्नाभ्यस्तयोः' इत्याल्लोपः । धत्थः इति ॥ थकारपरकत्वात् भष् । धत्थ । दधामि । दध्वः इति ॥ परनिमित्ताभावान्न भष् । दध्म । धत्ते इति ॥ दधाते। दधते। धत्से इति ॥ सकारपरकत्वाद्भषिति भावः दधाथे। धद्ध्वे इति॥ दद्ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः |