पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२२९
बालमनोरमा ।

स्यासवर्णे (सू २२९०) इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः | 'इडत्त्यर्ति–' (सू २३८४) इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति | इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति |भस ११०० भर्त्सनदीप्त्योः । बभस्ति । 'घसिभसोर्हलि–' (सू ३५५०) इत्पुपधालोपः । 'झलो झलि' (सू २२८१) इति सलोपः । बब्धः | बप्सति |


सॠकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ॠकारस्य गुणे रपरत्वे इ अर् ति इति स्थिते 'अभ्यासस्यासवर्णे ' इति इयडि इयर्ति इति रूपमित्यर्थ. । इयृतः इति ॥ पूर्ववदेव द्वित्वादि । तस. अपित्त्वेन डित्त्वाद्गुणनिषेध इति भाव. । इय्रतीति ॥ पूर्ववदेव द्वित्वादि | अभ्यस्तत्वाददादेश: । डित्त्वान्न गुण । उत्तरखण्डस्य ॠकारस्य यण् रेफ इति भावः । इयर्षि | इयृथः । इयर्मि । इयृवः । इयृमः । लिट्याह । आरेति ॥ थलि 'अचस्तास्वत्' इति 'ॠतो भारद्वाजस्य' इति नित्यमिण्निषेधे प्राप्ते आह | इडत्त्यर्तीति । नित्यमिडिति ॥ आरिथ | आरिम । अर्तेति ॥ अनिट्त्वादिति भाव । अरिष्यतीति ॥ 'ॠद्धनो: स्ये' इति इडिति भाव: | इयर्तु-इयृतात् । इयृताम् । इय्रतु । इयृहि-इयृतात् । इयृतम् । इयृत | इयराणीति ॥ आट पित्त्वेन अडित्त्वान्न गुणनिषेध इति भाव: | इयराव | इयराम | लड्याह । ऐय: इति ॥ श्लौ ॠ त् इति स्थिते द्वित्वे अभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयडि उत्तरखण्डस्य गुणे रपरत्वे च हल्ड्यादिलोपे रेफस्य विसर्गे इयः इति स्थिते आटि वृद्धौ ऐय. इति रूपमिति भावः | नच लावस्थायामडिति पक्षे वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घे हल्ड्यादिलोपे रेफस्य विसर्गे आः इति स्यादिति शङ्क्यम् । बहुल छन्दस्यमाड्योगेऽपि' इति बहुलग्रहणेनात्र लावस्थायामाडित्यस्यानाश्रयणादित्याहुः । ऐयरुरिति ॥ ऐय । ऐयृतम् । ऐयृत । ऐयरम् । ऐयृव | ऐयृम । विधिलिङ्याह । इयृयादिति ॥ यासुटो डित्त्वाद्गुणनिषेध इति भाव | इयृयाताम् इत्यादि । आशीर्लिङ्याह । अर्यादिति ॥ 'अकृत्सार्वधातुकयोः' इति दीर्घः प्राप्तः । तं बाधित्वा 'रिड् शयग्लिङ्क्षु' इति रिड् प्राप्तः | तम्बाधित्वा 'गुणोऽर्तिसयोगाद्योः' इति गुण इति भावः । लुडयाह । आरदिति ॥ 'सर्तिशास्त्यर्तिभ्यश्च' इत्यडि 'ॠदृशोऽडि' इति गुण इति भाव । आरिष्यत् । तदेव ॠधातु निरूप्य सृधातु निरूपयति । ससर्तीति ॥ ससृत । सस्रति । इत्यादि सुगमम् । ससार । ससर्थ | ससृव | सर्ता । सरिष्यति । ससर्तु | अससः | अससृताम् । अससरु | ससृयात् । स्रियात् | असरत् | भस भर्त्सने इति ॥ अय सेट् । बभस्तीति ॥ श्लौ भस् ति इति स्थिते द्वित्वे अभ्यासजश्त्वमिति भावः | बभस् तस् इति स्थिते आह । घसिभसोरिति ॥ 'घसिभसोर्हलि च' इत्यस्यायमर्थः । छन्दसि अनयोरुपधाया लोपः स्यात्, हलादावजादौ च क्डिति परे इति । तथाच बभस् तस् इत्यत्र उपधालोपे 'झलो झलि' इति सकारलोपे तकारस्य 'झषस्तथोः' इति धत्वे भकारस्य जश्त्वमिति भावः | बप्सतीति ॥ अभ्यस्तत्वाददादेशे बभस् अति इति स्थिते 'घसिभसोः' इत्युपधालोपे भकारस्य चर्त्वमिति भावः |