पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२३३
बालमनोरमा ।

२५०६ । सेऽसिचि कृतचृतछृदतृदनृतः । (७-२-५७)

एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्य इड्वा स्यात् । नर्तिष्यति-नर्त्स्येति । नृत्येत् । नृत्यात् । अनर्तीत् । त्रसी १११७ उद्वेगे | 'वा भ्राश--' (सू २३२१) इति श्यन्वा । त्रस्यति-त्रसति । त्रेसतुः-तत्रसतुः | कुथ १११८ पूतीभावे । पूतीभावो दौर्गन्ध्यम् । पुथ १११९ हिंसायाम् | गुध ११२० परिवेष्टने । क्षिप ११२१ प्रेरणे । क्षिप्यति । क्षेप्ता | पुष्प ११२२ विकसने । पुष्प्यति । पुपुष्प । तिम ११२३ ष्टिम ११२४ ष्टीम ११२५ आर्द्रीभावे । तिम्यति । स्तिम्यति । स्तीम्यति । व्रीड ११२६ चोदने लज्जायां च । व्रीड्यति । इष ११२७ गतौ । इष्यति । षह १११८ षुह ११२९ चक्यर्थे । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति | जॄष् ११३० झॄष् ११३१ वयोहानौ । जीर्यति । जजरतुः-जेरतुः | जरिता-जरीता | जीर्येत् । जीर्यात् । 'जॄस्तम्भु--' (सू २२९१) इत्यङ्वा । 'ऋदृशोऽङि गुणः' (सू २४०६) । अजरत्-अजारीत् | अजारिष्टाम् । झीर्यति । जझरतु: |अझारीत् । षूङ् ११३२ प्राणिप्रसवे । सूयते । सुषुवे । 'स्वरतिसूति--'(सू २२७९) इति विकल्पं बाधित्वा 'श्र्युकः किति' (सू २३८१) इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता-सविता |


इत्याद्यर्थमीत्त्वम् । सेडयम् । सेऽसिचि ॥ से असिचि इति छेदः । सप्तमी षष्ठ्यर्थे । कृत चृत छृद तृद नृत् एषां समाहारद्वन्द्वात् पञ्चमी । 'उदितो वा' इत्यतो वेति आर्धधातुकस्येडिति चानुवर्तते | तदाह । एभ्यः इत्यादिना ॥ नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम् । अनर्तदिति ॥ 'सेऽसिचि' इत्यत्र असिचि इत्युक्तेर्नित्यमिडिति भाव. । त्रसी उद्वेगे ॥ 'वा जॄभ्रमुत्रसाम्' इत्येत्त्वाभ्यासविकल्पौ मत्त्वा आह । त्रेसतुः-तत्रसतुरिति । कुथ पूतीभावे इति ॥ पवित्रीभवने इत्यर्थः । दुर्गन्धकरणे इति वा । (पूतिगन्धस्तु दुर्गन्धः) इत्यमरः । तिम ष्टिम ष्टीमेति ॥ द्वितीयतृतीयौ षोपदेशौ । द्वितीय इदुपधः । तृतीयस्तु ईदुपधः । षहषुहेति षोपदेशौ । चक्यर्थस्तृप्तिरिति ॥ यद्यपि 'चक तृप्तौ प्रतिघाते च' इत्युक्तम् । तथापि तृप्तिरेवेह विवक्षिता व्याख्यानात् । षुहेः 'नपुंसके भावे क्तः' इति त्क्तप्रत्यये सुहितशब्दः । सुहितस्तृप्तिरिति ‘पूरणगुण’ इति सूत्रे कैयटः। जॄष् झॄष् वयोहानाविति सेट्कौ । जीर्यतीति ॥ 'ॠत इद्धातोः' इति इत्त्वे 'हलि च' इति दीर्घ इति भावः । अतुसादौ 'ॠच्छत्यॄताम्' इति गुणे रपरत्वे 'वा जॄभ्रमुत्रसाम्' इत्येत्त्वाभ्यासलोपविकल्प इति भावः | जजरिथ | 'वृतो वा' इति मत्वा आह । जरिता-जरीतेति ॥ षूङ् प्राणिप्रसवे इति ॥ प्रसवः उत्पादन षोपदेशोऽयम् । विकल्पमिति ॥ परमपीति शेषः । निषेधे प्राप्ते इति ॥ पुरस्तात्प्रति-