पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२३५
बालमनोरमा ।

लिल्ये । व्रीङ् ११४० वृणोत्यर्थे । व्रीयते । विव्रिये । 'स्वादय ओदितः (ग सू २९६) । तत्फलं तु निष्ठानत्वम् । पीङ् ११४१ पाने । पीयते । मा ङ् ११४२ माने । मायते । ममे । ईङ् ११४३ गतौ । ईयते । अयां चक्रे । प्रीङ् ११४४ प्रीतौ । सकर्मकः । प्रीयते । पिप्रिये ।

अथ चत्वारः परस्मैपदिनः । शो ११४५ तनूकरणे ।

२५१० । ओतः श्यनि । (७-३-७१)

लोपः स्याच्छ्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । 'विभाषा घ्राधेट्--' (सू २३७६) इति सिचो वा लुक् । लुगभावे 'यमरम—' (सू २३७७) इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् । छो ११४६ छेदने । छ्यति । षो ११४७ अन्तकर्मणि । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ । दो ११४८ अवखण्डने । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ।

अथात्मनेपादिनः पञ्चदश । जनी ११४९ प्रादुर्भावे ।


स्वादय ओदितः इति ॥ धातुपाठपठितङ्गणसूत्रमिदम् । ‘षूड् प्राणिप्रसवे' इत्यारभ्य व्रीडन्ता ओदित्कार्यभाज इत्यर्थ:| निष्ठानत्वमिति ॥ 'ओदितश्च' इत्यनेनेति भाव | प्रीङ् प्रीताविति ॥ प्रीतिस्तुष्टिः । (मुत्प्रीतिः प्रमदो हर्षः) इत्यमर । एव सत्यकर्मकः । यथा फलमूलादिना हरिः प्रीयते । हृष्यतीत्यर्थः । यदा तु प्रीति तर्पणं ‘प्रीञ् तर्पणे' इति क्रैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्ति तदा तु सकर्मक । तदाह । सकर्मकः इति । प्रीयते इति ॥ तर्पयतीत्यर्थ. । अथ चत्वारः परस्मैपदिनः इति ॥ ‘देा अवखण्डने’ इत्यन्ता इति भावः । शो तनूकरणे । अनिट् । ओतः शयनि ॥ 'घोर्लोपो लेटि वा' इत्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेष पूरयति । लोपः स्यादिति । शशाविति ॥ 'आदेच' इत्यात्त्वे णलिति भावः । शशतुरिति ॥ शशिथ-शशाथ । शशिव । शास्यतीति ॥ श्यतु । अश्यत् । श्येत् । शायात् । लुडि सिचि विशेषमाह । विभाषा घ्रेति ॥ सिचेा लुक्पक्षे आह । अशादिति ॥ ‘आत’ इति जुसिति मत्वा आह । अशुरिति ॥ सिचो लुगभावे सगिटौ मत्वा आह । अशासीदिति ॥ छोधातुरपि शोधातुवत् । षो अन्तकर्मणीति ॥ समापने विनाशने वेत्यर्थ । शोधातुवद्रूपाणि । षोपदेशोऽयम् । स्यतीति ॥ 'ओतः श्यनि' इति लोपः । अभिष्यतीति । अभ्यष्यदिति ॥ 'प्राक्सितात्' इति षत्वम् । अभिससाविति ॥ स्थादिष्विति नियमात् न ष .। दो अवखण्डने । प्रणिदातेति ॥ 'नेर्गद' इति णत्वम् । देयादिति ॥ आशीर्लिङि एर्लिङीत्येत्त्वम्। अदादिति ॥ 'गातिस्था' इति सिचो लुक् । अथात्मनेपदिनः इति ॥ वाशृ शब्दे इत्यन्ता इत्यर्थः । जनी प्रादुर्भावे इति ॥ श्वीदितो निष्ठा-