पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
[दिवादि
सिद्धान्तकौमुदीसहिता

२५११ । ज्ञाजनोर्जा । (७-३-७९)

अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जज्ञाते । जज्ञिरे । जनिता | जनिष्यते । 'दीपजन-' (२३२८) इति वा चिण् |

२५१२ । जनीवध्योश्च । (७-३-३५)

अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि—अजनिष्ट | दीपी ११५० दीप्तौ । दीप्यते । दिदीपे । अदीपि-अदीपिष्ट । पूरी ११५१ आप्यायने | पूर्यते । अपूरि-अपूरिष्ट । तूरी ११५२ गतित्वरणहिंसनयोः | तूर्यते । तुतूरे । धूरी ११५३ गूरी ११५४ हिंसागत्योः । धूर्यते | दुधूरे । गूर्यते । जुगूरे । घूरी ११५५ जूरी ११५६ हिंसावयोहान्योः | शूरी ११५७ हिंसास्तम्भनयोः | चूरी ११५८ दाहे । तप ११५९ ऐश्वर्ये वा | अयं धातुरैश्वर्ये वा श्यनन्तङञ्च लभते । अन्यदा तु शब्विकरण: परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधातोराद्यवयवमिच्छन्ति । तप्यते | तप्ता | तप्स्यते । 'पत' इति व्यत्यासेन पाठान्तरम् । 'द्युत द्यामानि युतः पत्यमान:' |


याम्' इत्याद्यर्थमीदित्त्वम् । ज्ञाजनोर्जा ॥ शितीति ॥ ष्ठिवुक्लम्वाचमामित्यतस्तदनुवृत्तेरिनि भावः । जायते इति ॥ ज्ञाधातोस्तु श्नाविकरणत्वात् जानातीत्युदाहरणम्। उभयत्रापि जादेशस्य ह्रस्वान्तत्वे ‘अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्’ इति परिभाषया 'अतो दीर्घो यञि' इत्यप्राप्तौ जादेशस्य दीर्घान्तत्वमाश्रितम् । जज्ञे इति ॥ 'गमहन' इत्युपधालोपे नस्य श्चुत्वेन ञः । जायेत । जनिषीष्ट । लुडि अजन् स् त इति स्थिते आह । दीपेति । वा चिणिति ॥ सिच इति शेषः | अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् । जनीवध्योश्च ॥ 'अत उपधाया' इत्यत उपधाया इति 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति 'नोदात्तोपदेशस्य' इत्यतो नेति 'आतो युक्' इत्यतः चिण्कृतोरिति 'अचोञ्णिति' इत्यतः ञ्णितीति चानुवर्तते । तदाह । अनयोरिति ॥ दीपीधातुरीदित् । 'दीपजन' इति सिचः चिण्विकल्पं मत्वा आह । अदीपि-अदीपिष्टेति ॥ पूरीधातुरपि ईदित् । 'दीपजन' इति चिण्विकल्पं मत्वा आह । अपूरि-अपूरिष्टेति ॥ तूरी इत्यादयोऽपि ‘चूरी दाहे’ इत्यन्ता ईदित एव । तप ऐश्वर्येवेति ॥ श्यन् आत्मनेपदश्चेति शेषः | उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति । श्यनं तङञ्चेति ॥ अन्यदा त्विति ॥ ऐश्वर्यादन्यत्रार्थे वृत्तिदशायामित्यर्थः । केचित्त्विति ॥ ‘तप ऐश्वर्ये वा’ ‘वृतु वरणे' इति धातुपाठे स्थितम् । तत्र 'वावृतु वरणे ' इत्येव वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः । एवञ्च तप ऐश्वर्ये इत्येव स्थितम् । अस्मिन्पक्षे तपधातोः नित्यमेव श्यन् तङ् चेति भावः | तप्यते इति ॥ ईष्टे इत्यर्थः । प्रथमपक्षे ऐश्वर्ये तपतीत्यपि भवति । पत इतीति ॥ तपधातोस्तकारपकारयोः क्रमव्यत्यासेन 'पत ऐश्वर्ये वा' इति पाठान्तरमित्यर्थः । एव व्यत्यासेन पाठे