पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२४१
बालमनोरमा ।

---आलिङ्गने । (३-१-४६)

श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्र । योगविभागसामर्थ्यात् 'शल इगुपधात्--' (सू २३३६) इत्यस्याप्ययं नियमः 'अश्लिक्षत्कन्यां देवदत्तः' । 'आलिङ्गन एव' इति किम् । समाश्लिषज्जतुकाष्ठम् । आङ् । प्रत्यासक्ताविह श्लिषिः । कर्मण्यनालिङ्गने सिजेव न तु क्स: । एकवचने


कर्मणो.' इति चिण्विधेर्न बाधक इत्यर्थः । कुत इत्यत आह । पुरस्तादिति ॥ 'शल इगुपधादनिट क्स' 'श्लिषः' 'पुषादिद्युताद्यूलृदितः परस्मैपदेषु' 'चिण् भावकर्मणो' इति सूत्रक्रम इति भाव । आलिङ्गने श्लिष इति पूर्वसूत्रे यदनुवृत्तन्तत्सर्वमिहानुवर्तते, श्लिष इति च । तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते । 'श्लिषः' इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् । तदाह । श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति ॥ नन्वयन्नियम. “अनन्तरस्य” इति न्यायात् श्लिष इति सूत्रप्राप्तस्यैव स्यात्, नतु 'शल इगुपधात्' इत्यस्यापीत्यत आह । शल इगुपधादित्यस्याप्ययं नियमः इति ॥ कुत इत्यत आह । योगविभागसामर्थ्यादिति ॥ यदि श्लिष इति प्राप्त एव क्स एव आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात् । 'श्लिष आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात्। अत 'शल इगुपधात्' इति क्सोऽपि श्लिपेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायते इत्यर्थ । अश्लिक्षत् कन्यां देवदत्तः इति ॥ आलिङ्गदित्यर्थ. । अत्र पुषाद्यडम्बाधित्वा अनेन क्स. । समाश्लिषज्जतुकाष्ठमिति ॥ जतु लाक्षा । साच काष्ठलग्नैवोत्पद्यते इति स्थितिः । जतु काष्ठञ्चेति समाहारद्वन्द्वः । (समाश्लिषज्जतुकाष्ठञ्च) इत्येव भाष्यम् । अत्र श्लिषेरालिङ्गनार्थकत्वाभावान्न क्सः । किन्तु पुषाद्यडेवेति भाव । नन्वजादित्वाभावेन आडागमस्यासम्भवात् समाश्लिषदित्ययुक्तमित्यत आह । आङिति ॥ समाश्लिषत् इत्यत्र श्लिषे प्राक् आङ्उपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थ । नन्वालिङ्गन समाश्लेषण तथाच समाश्लिषज्जतुकाष्ठम् इत्यत्रापि श्लिषेरालिङ्गनार्थकत्वात् क्सो दुर्वार इत्यत आह । प्रत्यासक्ताविहेति ॥ इह समाश्लिषज्जतुकाष्ठम् इत्यत्र । श्लिषिः प्रत्यासक्तौ संयोगे वर्तते नतु बाह्वादिना सवलनात्मकसम्बन्धविशेषरूपे आलिङ्गने इत्यर्थः । नन्वालिङ्गने एव श्लिषश्च्लेः क्सः न त्वनालिङ्गने इति नियमात् अनालिङ्गने 'शल इगुपधात्' इत्यपि क्सो न भवतीत्युक्तमयुक्तम् । समाश्लिषज्जनुकाष्ठमित्यत्रानालिङ्गने 'शल इगुपधात्' इति क्सम्बाधित्वा परत्वात् पुषाद्यड एव प्राप्त्या क्सस्याप्रसक्तेरित्यत आह । कर्मणीति ॥ अनालिङ्गनवृत्ते श्लिषधतोः कर्मणि लुडि च्लेस्सिजेव भवति, न तु पुषाद्यड्, तस्य परस्मैपदविषयत्वात् । कर्मणि लुडश्च ‘भावकर्मणोः' इत्यात्मनेपदनियमात् । तस्य च सिच 'शल इगुपधात्' इति प्राप्त क्सः उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः । यदुक्त आलिङ्गने श्लिषश्च्ले. क्स पुषाद्यड एवापवादः नतु चिणः इति । तस्य 31