सुष्णोहिथ-सूष्णोग्ध-सुष्णोढ । सुष्णुहिव-सुष्णुह्व । स्नोहिता-स्नोग्धा--स्नोढा । स्नोहिष्यति-स्नोक्ष्यति । अस्नुहत् । ष्णिह १२०१ प्रीतौ । स्निह्यति । स्निष्णेह । वृत् । रधादयः समाप्ताः । पुषादयस्तु आ गणान्तादिति सिद्धान्तः । शमु १२०२ उपशमे ।
२५१९ । शमामष्टानां दीर्घः श्यनि । (७-३-७४)
शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् । तमु १२०३ काङ्क्षायाम्। ताम्यति । तमिता । अतमत् । दमु १२०४ उपशमे । उपशम इति ण्यन्तस्य । तेन सकर्मकोऽयम् । न तु शमिवदकर्मकः । अदमत् । श्रमु १२०५ तपसि खेदे च । श्राम्यति । अश्रमत् । भ्रमु १२०६ अनवस्थाने । 'वा भ्राश-' (सू २३२१) इति श्यन्वा । तत्र कृते 'शमामष्टानाम्--' (२५१९) इति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् । क्षमू १२०७ सहने । क्षाम्यति । चक्षमिथ-चक्षंथ । चक्षमिव-चक्षण्व । चक्षमिम-चक्षण्म । क्षमिता-क्षन्ता । अयमषित् । भ्वादिस्तु षित् ।
'अषितः क्षाम्यतेः क्षान्तिः क्षमूषः क्षमतेः क्षमा ' ।
इति घत्वविकल्प । पक्षे ढ । इति रधादय । आ गणान्तादिति ॥ दिवादिगणसमाप्तिपर्यताः पुषादय इत्यर्थ । सिद्धान्तः इति ॥ माधवादिभिस्तथाऽभ्युपगमादिति भाव । उपशमे इति ॥ उपशमो नाश इन्द्रियनिग्रहश्च । शमामष्टानाम् ॥ स्पष्टम् । बहुवचनात् शमादिग्रहणम् । तदाह । शमादीनामिति ॥ 'शमस्तमुर्दमुरथ श्रमुर्भ्रमुरपि क्षमु । क्लमुर्मदी चेत्येतेऽष्टौ शमादय.' इति स्थितिः । दमु उपशमे इति ॥ ननु शमु दमु उपशमे इत्येव पठितु युक्तमित्यत आह । उपशम इति ण्यन्तस्येति ॥ शमधातोर्हेतुमण्ण्यन्तात् घञि 'नोदात्तोपदेशस्य' इति वृध्द्यभाव इत्यर्थ. । ततः किमित्यत आह । तेनेति ॥ ततश्च दाम्यतीत्यत्यस्य शमयतीत्यर्थ. । शेषं भ्वादिवदिति ॥ आर्धधातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः । क्षमू सहने । ऊदित्त्वात् थलि वमादौ च इड्विकल्प. । तदाह । चक्षमिथेत्यादि ॥ षित्त्वाषित्त्वयो. फलभेद श्लोकार्धेन सङ्गृह्णाति । अषितः इति ॥ अषित क्षाम्यतेः श्यन्विकरणपठितस्य क्षमधातो क्तिनि क्षान्तिः इति रूपम् । अषित्त्वात् 'षिद्भिदादिभ्यः' इत्यड् न । क्षमूषस्तु भौवादिकात् षित. आत्मनेपदे शपि क्षमते इति रूपम् । क्तिन बाxत्वा षित्त्वादडि क्षमेति रूपञ्चेत्यर्थ । क्लमु ग्लानौ । नन्वस्य शमादिगणात् बहिरेव दिवादिगणे पाठोऽस्तु । नच 'शमामष्टानाम्' इति दीर्घार्थं शमादिगणे अस्य पाठ इति वाच्यम् । 'ष्ठिवुक्लम्वाचमा शिति' इत्येव शपि परे इव श्यनि परेऽपि दीर्घसिद्धे: । नच 'ष्ठिवुक्लम्वाचमां शिति' इत्यत्रैव क्लमुग्रहण त्यज्यतामिति वाच्यम् । शपि