पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
[स्वादि
सिद्धान्तकौमुदीसहिता

असावीत्। असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव |

२५२४ । सुनोतेः स्यसनोः । (८-३-११७)

स्ये सनि च परे सुञः षो न स्यात् । विसोष्यति । षिञ् १२४९ बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । सेता । शिञ् १२५० निशाने | तालव्यादिः । शेता । डु मिञ् १२५१ प्रक्षेपणे 'मीनातिमिनोति--' (सू २५०८) इत्यात्त्वम् | ममौ | ममिथ-ममाथ | मिम्ये |


भावः | सूयादिति ॥ आशीर्लिङि 'अकृत्सार्वधातुकयोः' इति दीर्घ इति भाव | सोषीष्ट | लुडि परस्मैपदे सिचः इण्निषेधे प्राप्ते आह । स्तुसुधूञ्भ्यः इति इडिति ॥ असाविष्टामित्यादि । लुडस्तड्याह | असोष्टेति ॥ असोषातामित्यादि । असोष्यत् । असोष्यत | 'उपसर्गात् सुनोति' इति षत्वम्मत्वा आह । अभिषुणोतीति ॥ षात्परत्वाण्णत्वम् | अभ्यषुणोदिति ॥ 'प्राक् सितादड्व्यवायेऽपि' इति षत्वम् । अभिसुषावेति ॥ 'स्थादिष्वभ्यासेन' इत्युत्तरखण्डस्य ष | सुनोतेः स्यसनो: ॥ 'अपदान्तस्य मूर्द्धन्य' इत्यधिकृतम् । ‘न रपर’ इत्यतो नेत्यनुवर्तते । तदाह । षो न स्यादिति ॥ स्ये उदाहरति | विसोष्यतीति ॥ अत्र 'उपसर्गात् सुनोति' इति प्राप्तः षो न भवति । सनि तु अभिसुसूरित्युदाहरणम् । षुञः सनि द्वित्वे अभिसुसुस इति सनन्तात् व्किपि अतो लोपे अभिसुसुस् इत्यस्मात् सोर्हल्ड्यादिलोपे सस्य रुत्वे 'र्वोरुपधायाः' इति दीर्घे रेफस्य विसर्गः । सुसूषते इति तु नोदाहरणम् । 'स्तौतिण्योरेव षण्यभ्यासात्' इति नियमादेव षत्वाभावसिद्धेरित्यलम् | षिञ् बन्धने इति ॥ षोपदेश. अनिट् च । षुञ इव रूपाणि । विसिनोतीति ॥ 'सात्पदाद्यो:' इति षत्वनिषेधः | 'उपसर्गात्सुनोति' इति तु न ष: | सुनोत्यादिष्वनन्तर्भावादिति भावः | सिषायेति ॥ णलि वृद्धौ आयादेश: | अतुसादौ 'एरनेकाच.' इति यण् । सिष्यतुरित्यादि | लिटस्तड्याह । सिष्ये इति ॥ सिषि ए इति स्थिते 'एरनेकाचः’ इति यणिति भावः | सिष्याते । सिष्यिरे । इत्यादि । असैषीत् । शिञ् निशाने इति ॥ षिञ्वत् । डु मिञ् प्रक्षेपणे इति ॥ मिनोति । उपदेशे एजन्तत्वाभावादात्त्वे अप्राप्ते आह । मीनातिमिनोतीत्यात्त्वमिति ॥ एज्विषये अशितीति शेष. । ममाविति ॥ आत्त्वे कृते णल औत्वमिति भाव | अतुसादावेज्विषयत्वाभावान्नात्त्वम् | 'एरनेकाच' इति यण् । मिम्यतुः | मिम्युः । भारद्वाजनियमात्थलि वेडिति मत्वा आह । ममिथ-ममाथेति ॥ थल पित्त्वेन अकित्त्वादेज्विषयत्वम् । इट्पक्षे 'आतो लोपः' इति भाव: | मिम्यथुः । मिम्य । ममौ | मिम्यिव । मिम्यिम । लिटस्तड्याह । मिम्ये इति ॥ एश आदिशित्त्वाभावात् कित्त्वेन एज्विषयत्वाभावाच्च नात्त्वमिति भावः । मिम्याते । मिम्यिरे। मिम्यिषे । मिम्याथे । मिम्यिध्वे | मिम्ये । मिम्यिवहे । मिम्यिमहे । मातेति ॥ एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः | मास्यति । मास्यते । सार्वधातुकेषु षुञ्वत् । मीयादिति ॥ आशीर्लिङि परस्मैपदे यासुटः