पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
[तुदादि
सिद्धान्तकौमुदीसहिता

गिरते: रेफस्य लत्वं वा स्यादजादौ । गिरति-गिलति । जगार--जगाल । जगरिथ-जगलिथ । गरिता-गलिता । दृङ् १४१२ आदरे । आद्रियते । आद्रियेते । आदद्रे । अदद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आदृत । आदृषाताम् । धृङ् १४१३ अवस्थाने । ध्रियते ।

अथ परस्मैपदिनः षोडश । प्रच्छ १४१४ ज्ञीप्सायाम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ—पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः । सृज १४१५ विसर्गे । 'विभाषा सृजिदृशोः' (सू २४०४) । ससर्जिथ-सस्रष्ठ । स्रष्टा । स्रक्ष्यति । 'सृजिदृशोर्झल्यमकिति' (सू २४०५) इत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् । टु मस्जो १४१६ शुद्धौ । मज्जति । ममज्ज । मस्जिनशोर्झलि' (सू २५१७) इति नुम् । 'मस्जेरन्त्यात्पूर्वो नुम् वाच्यः (वा ३२१) । संयोगादिलोपः । ममङ्क्थ । ममज्जिथ ।


ग्र. इत्यनुवर्तते । ‘कृपो रो ल.’ इत्यतः रो ल इति । तदाह । गिरतेरिति ॥ अजादाविति ॥ 'धातो. कार्यमुच्यमान तत्प्रत्यये भवति' इति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेति 'मृजेर्वृद्धि' इति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति ॥ ह्रस्वान्तोऽयम् । अनिट् । आद्रियते इति ॥ रिड् इयड् । 'ॠद्धनोः स्ये' इति इट मत्वा आह । आदरिष्यते इति । आादृषीष्टेति ॥ 'उश्च' इति कित्त्वान्न गुणः |आादृतेति ॥ 'ह्रस्वादङ्गात्' इति सलोपः । प्रच्छ ज्ञीप्सायामिति ॥ ज्ञातुमिच्छा ज्ञीप्सा । अनिडयम् । पृच्छतीति ॥ शस्य डित्त्वात् 'ग्रहिज्या' इति रेफस्य सम्प्रसारण ॠकारः पूर्वरूपञ्चेति भाव । पप्रच्छतुरिति ॥ सयोगात् परत्वेन कित्त्वाभावान्न सम्प्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति मत्वा आह । पप्रच्छिथ-पप्रष्ठेति ॥ इडभावपक्षे व्रश्चादिना छस्य षः थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति ॥ छस्य व्रश्चेति ष' तकारस्य ष्टुत्वेन टः । नच षत्वस्यासिद्धत्वात् पूर्व तुकि ततः छस्य षत्वे ष्टुत्वयोः प्रट्ष्टेति स्यादिति वाच्यम् । व्रश्चेतिसूत्रे सतुकस्य छस्य ग्रहणात् । किरादयो वृत्ताः इति ॥ नचैव सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहण व्यर्थ । किरादीनाम्पञ्चत्वादिति वाच्यम् । तस्य 'रुदादिभ्यस्सार्वधातुके' इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट्। सृजति । ससर्ज । ससृजतु. । अजन्ताकारवत्त्वाभावेऽपि 'विभाषा सृजिदृशो.' इति थलि वेट् इति मत्वा आह । ससर्जिथ-सस्रष्ठेति ॥ इडभावे 'व्रश्च' इति जस्य षः थस्य ष्टुत्वेन ठः पित्त्वेन अकित्त्वात् 'सृजिदृशो' इत्यमागम इति भावः । ससृजिव । टु मस्जो शुद्धौ । मज्जतीति ॥ सस्य श्चुत्वेन श: तस्य जश्त्वेन ज इति भाव. । ममङ्क्थेति ॥ मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थ इति स्थिते 'स्को' इति सकारलोपे ममज् थ इति स्थिते जस्य कुत्वेन गकारे 'मस्ज्नशो.' इति नुमि तस्यानुस्वारे तस्य परसवर्णो ङकार गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात् परत्र नुमि सत्यपि इद