पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

। श्रीरस्तु ।

॥ अथ तिङन्तरुधादिप्रकरणम् ॥

रुधिर् १४३९ आवरणे । नव स्वरितेतः इरितश्च ।

२५४३ । रुधादिभ्यः श्नम् । (३-१-७८)

शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि । 'श्नसोरल्लोपः' (सू २४६९) । णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः । तस्यासिद्धत्वाण्णत्वं न । 'न पदान्त-' (सू ५१) इति सूत्रेणानुस्वारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रोत्स्यते। रुणध्दु । रुन्धात् । रुन्धि। रुणधानि । रुणधै।अरुणत्। अरुन्धाम् । अरुणत्-अरुणः । अरुणधम् । अरुधत्-अरौत्सीत् । अरुद्ध । भिदिर् १४४०


अथ श्नम्विकरणा धातवो निरूप्यन्ते । रुधिरित्यादिना । रुधादिभ्यः श्नम् ॥ कर्त्रर्थे सार्वधातुके परे रुधादिभ्य श्रम्प्रत्ययस्स्यात् स्वार्थे इत्यर्थः । तदाह । शपोऽपवादः इति ॥ श्नमि शमावितौ । मित्त्वस्य फलमाह । मित्त्वादन्त्यादचः परः इति ॥ प्रत्ययत्वात् शकारस्येत्संज्ञा । शकारनिर्देशस्य 'श्नसोरल्लोप ' 'श्नान्न लोपः' इत्यत्र विशेषणार्थ.। नतु सार्वधातुकसंज्ञार्थ । फलाभावात् । नच ‘सार्वधातुकमपित्’ इति कित्त्वे गुणनिषेध फलमिति शङ्क्यम् । श्नमः पूर्वस्य इगन्तस्य अङ्गत्वाभावादेव गुणाप्रसत्ते । ननु श्नम. प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् श्नमि रोणत्सि इति स्यादित्यत आह । नित्यत्वाद्गुणं बाधते इति ॥ कृते अकृते च गुणे प्रवृत्ते श्नम् नित्यः । तस्मिन् सति लघूपधत्वाभावान्न गुण इति भाव । रुणद्धीति ॥ रुनध् ति इति स्थिते 'झषस्तथो.' इति धत्वे णत्वमिति भावः । रुनध् तस् इति स्थिते प्रक्रिया दर्शयति । श्नसोरल्लोपः इति ॥ क्डिति सार्वधातुके तद्विधेरिति भावः । रुन्ध् तस् इति स्थिते नस्य णत्वमाशङ्क्य आह । णत्वस्यासिद्धत्वादिति ॥ ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह । तस्यासिद्धत्वादिति ॥ परसवर्णसम्पन्ननस्येत्यर्थः । नन्विह अल्लोपस्य ‘अच. परस्मिन्’ इति स्थानिवत्त्वात् कथमनुस्वारपरसवर्णावित्यत आह । न पदान्तेति । रुन्धः इति ॥ ‘झषस्तथो.’ इति ध । रुन्धन्तीति ॥ रुणत्सि । रुन्ध. । रुन्ध । रुणध्मि । रुन्ध्वः । रुन्ध्मः । रुन्धे इति ॥ रुन्धाते । रुन्धते । रुन्त्से । रुन्धाथे । रुन्ध्द्वे । रुन्धे । रुन्ध्वहे । रुन्ध्महे । रुरोध । रुरोधिथ । अरुणदिति ॥ लडि हल्ड्यादिना तिपो लोप । धस्य चर्त्वविकल्पः । सिपि तु हल्ड्यादिना लुप्ते 'दश्च' इति रुत्वविकल्प मत्वा आह । अरुणत्-अरुणः इति ॥ रुन्ध्यात् । रुन्धीत । रुत्सीष्ट । इरित्त्वादड्विकल्पं मत्वा आह। अरुधत्-अरौत्सीदिति ॥ अडभावे सिचि हलन्तलक्षणा वृद्धि । लुङस्तड्याह । अरुद्धेति ॥