पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०]
[अदादि
सिद्धान्तकौमुदीसहिता

अरुदत्-अरोदीत् । ञि ष्वप् १०६८ शये । स्वपिति । स्वपितः । सुष्वाप | सुषुपतुः । सुषुपुः । सुष्वपिथ-सुष्वप्थ |

२४७७ । सुविनिर्दुर्भ्यः सुपिसूतिसमाः । (८-३-८८)

एभ्यः सुप्यादेः सस्य षः स्यात् । 'षूर्वं धातुरुपसर्गेण युज्यते' ।


यासुटम्बाधित्वा परत्वात् 'अङ्गार्ग्यगालवयो ’ इति 'रुदश्च पञ्चभ्यः ’ इति च अडीटौ स्यातामित्यत आह । प्रकृतिप्रत्ययेति ॥ हलादिपित्सार्वधातुकापृक्तापेक्षत्वाच्चेत्यपि ज्ञेयम् । लुडि 'इरितो वा' इत्यड्पक्षे आह । अरुददिति ॥ अडभावपक्षे त्वाह । अरोदीदिति ॥ 'अस्ति सिचः' इति ईट् 'रुदश्च पञ्चभ्यः' इति तु नेह प्रवर्तते । सिचा व्यवहितत्वात् । ञि ष्वप् शये इति ॥ षोपदेशोऽयम् । आर्धधातुके अनिट् । स्वपितीति ॥ ‘रुदादिभ्य' इति इट् । स्वपितः इति ॥ स्वपन्ति । स्वपिषि । स्वपिथः । स्वपिथ । स्वपिमि । स्वपिवः । स्वपिमः । सुष्वापेति ॥ द्वित्वे 'लिट्यभ्यासस्य’ इति सम्प्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वामिति भावः । सुषुपतुरिति ॥ 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वादीति भाव. । सुषुपुरित्यपि ज्ञेयम् । सुष्वपिथ-सुष्वप्थेति ॥ भारद्वाजनियमात्थलि वेडिति भाव. । सुषुपथुः । सुषुप । सुष्वाप-सुष्वप । सुषुपिव । सुषुपिम । सुविनिर्दुर्भ्यः ॥ कृतसम्प्रसारणस्य स्वप्धाताः स्वपीत्यनेन ग्रहणम्। सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्यते | समत्यनेनापि समशब्दस्य ग्रहणम् । षष्ठ्यर्थे प्रथमा । 'सहेस्साढस्स' इत्यतः स. इति षष्ठ्यन्तमनुवर्तते । मूर्धन्य इत्यधिकृतम् । तदाह । एभ्यः सुप्यादेरिति ॥ सुषुप्तिः, सुषूतिः, सुषुम, इत्युदाहरणानि । अत्र कृतसम्प्रसारणस्य स्वप्धातोर्ग्रहणात् सुस्वप्न इत्यत्र न षत्वमिति भाष्यम् । नन्वेव सति सु षुषुपतुरित्यत्र सुपूर्वस्य स्वप्धातोः कथ षत्वम् । कृतसम्प्रसारणस्य हि स्वप्धातोः षत्वम् । तत्र यदि स्वप् अतुस् इति स्थिते पूर्व द्वित्वे कृते पश्चात् 'वचिस्वपि' इति सम्प्रसारणं तदा हलादिशेषे उत्तरखण्डस्यैव 'वचिस्वपि' इति सम्प्रसारण न त्वभ्यासस्य । अतुस: कितः उत्तरखण्डव्यवहितत्वात्, 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधाच्च । ततश्च सु सस्वप् अतुसित्यत्र पूर्वखण्डस्य कृतसम्प्रसारणत्वाभावात् कथं षत्वम् । उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाभावात्कथमनेन षत्वम् । इण्कवर्गाभ्याम्परत्वाभावेन आदेशप्रत्यययोः इत्यस्याप्युत्तरखण्डे अप्रवृत्तेः । यदि तु परत्वात्पूर्वं सम्प्रसारणे कृते पश्चात् द्वित्व तर्हि सुप् इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् । तत्तु न युज्यते । ‘पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण’ इति परिभाषया सु इत्युपसर्गसम्बन्धस्य द्वित्वात्प्रागप्रवृत्ते । तथाच कृतसम्प्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैव 'आदेशप्रत्यययोः' इति षत्व स्यात् । न तु पूर्वखण्डस्य 'सात्पदाद्योः' इति निषेधात् । कृते हलादिशेषे सु इति पूर्वखण्डस्य सुब्रूपत्वाभावेन 'सुविनिर्दुर्भ्यः' इत्यस्याप्यप्रवृत्तेः । नच एकदेशविकृतविकृतस्यानन्यत्व शङ्क्यम् । एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहणपरिभाषया षत्वस्य तत्राप्राप्तेः । तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्क्य आह । पूर्वं धातुरित्यादिना ॥ लक्ष्यानुरोधादिह 'पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्याश्री-