पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२९७
बालमनोरमा ।

'आ स्वदः सकर्मकात्' (ग सू २०१) । स्बदिमभिव्याप्य सम्भवत्कर्मभ्य एव णिच् । ग्रस १७५० ग्रहणे । ग्रासयति फलम् । पुष १७५१ धारणे पोषयत्याभरणम् । दल १७५२ विदारणे । दालयति । पट १७५३ पुट १७५४ लुट १७५५ तुजि १७५६ मिजि १७५७ पिजि १७५८ लुजि १७५९ भजि १७६० लघि १७६१ त्रसि १७६२ पिसि १७६३ कुसि १७६४ दशि १७६५ कुशि १७६६ घट १७६७ घटि १७६८ बृहि १७६९ बर्ह १७७० बल्ह १७७१ गुप १७७२ धूप १७७३ विच्छ १७७४ चीव १७७५ पुथ १७७६ लोकृ १७७७ लोचृ १७७८ णद १७७९ कुप १७८० तर्क १७८१ वृतु १७८२ वृधु १७८३ भाषार्थाः । पाटयति । पोटयति । लोटयति । तुञ्जयति । तुञ्जति । एवं परेषाम् । घाटयति । घण्टयति ।

२५७२ । नाग्लोपिशास्वृदिताम् । (७-४-२)

णिच्यग्लोपिनः शास्तेः ऋदितां चोपधाया ह्रस्वो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वात् वर्तति । वर्धति । रुट १७८४ लजि १७८५ अजि १७८६ दसि १७८७ भृशि १७८८ रुशि १७८९ शीक १७९० रुसि १७९१ नट १७९२ पुटि १७९३ जि १७९४ चि १७९५ रघि १७९६ लघि १७९७ अहि १७९८ रहि १७९९ महि १८०० च । लडि १८०१ तड १८०२ नल १८०३ च । पूरी १८०४ आप्यायने । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा ।पूरयति-पूरति ।


णिच् स्यादित्यर्थः । कल्पयतीति ॥ 'कृपो रो लः' इति लत्वम् । कृपेश्चेति पाठान्तरम् । आस्वदस्सकर्मकादिति ॥ आडभिविधौ । तदाह । स्वदिमभिव्याप्येति ॥ तत्र 'ष्वद आस्वादने' इत्यस्य अकर्मकत्वादाह । सम्भवत्कर्मभ्यः इति ॥ इत आरभ्य आस्वदीयास्सकर्मकाः । स्वदिस्त्वकर्मकः । पट पुटेति ॥ एकत्रिंशत् धातवः । आद्यास्त्रयष्टान्ताः । आद्यद्वितीयौ पवर्गप्रथमादी । चतुर्थाद्या एकादश इदितः । त्रिसिपिसी इदुपधौ । अदुपधौ इत्येके । षोडशसप्तदशाविदितौ । अलुलोकत्-अलुलोचत्, इत्यत्र उपधाह्रस्वे प्राप्ते । नाग्लोपि ॥ 'णौ चड्युपधायाः' इत्यनुवर्तते । णावित्यावर्तते । एकमग्लोपिन इत्यत्रान्वेति । द्वितीयन्तु निषेधे परनिमित्तम्। तदाह । णिच्यग्लोपिनः इत्यादि ॥ ॠदित्त्वान्नाग्लोपीति निषेधेन उपधाह्रस्वाभावे सति लघुपरकत्वाभावान्नाभ्यासदीर्घ इति भावः । उदित्त्वादिति ॥ 'वृतु वृधु' इत्युदित्त्वं 'उदितो वा' इत्यण्यन्तात् क्त्वायामिड्विकल्पार्थम्। ण्यन्तात्तु णिचा व्यवधानात् नेड्विकल्पप्रसक्तिः । अतो णिज्विकल्पो विज्ञायते इति भावः । पूरी आप्यायने । इण्निषे-