पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२९९
बालमनोरमा ।

तर्पयति-तर्पति । तर्पिता । छृदी १८२१ संदीपने । छर्दयति-छर्दति । छर्दिता । छर्दिष्यति । 'सेऽसिचि-' (सू २५०३) इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । 'चृप छृप दृप सन्दीपने' इत्येके । चर्पयति । छर्पयति । दृभी १८२२ भये । दर्भयति । दर्भति । दर्भिता । दृभ १८२३ संदर्भे । अयं तुदादावीदित् । श्रथ १८२४ मोक्षणे । 'हिंसायां' इत्येके । मी १८२५ गतौ । माययति-मयति । मेता । ग्रन्थ १८२६ बन्धने । ग्रन्थयति-ग्रन्थति । शीक १८२७ आमर्षणे । चीक १८२८ च । अर्द १८२९ हिसायाम् । स्वरितेत् । अर्दयति-अर्दति-अर्दते । हिसि १८३० हिंसायाम् ।हिंसयति-हिंसति । 'हिनस्ति' इति श्नमि गतम् । अर्ह १८३१ पूजायाम् । आड: षद १८३२ पद्यर्थे । आसादयति-आसीदति । 'पाघ्रा--' (सू २३३०) इति सीदादेश: । आसत्ता । आसात्सीत् । शुन्ध १८३३ शोचकर्मणि । शुन्धिता ।अशुन्धीत् । अशुन्धिष्टाम् । छद १८३४ अपवारणे । स्वरितेत् । जुष १८३५ परितर्कणे । परितर्कणमूहो हिसा वा । 'परितर्पणे' इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति-जोषति । प्रीतिसेवनयोर्जुषत इति तुदादौ । धूञ् १८३६ कम्पने । णावित्यधिकृत्य 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा ४५१९) । धूनयति-धवति-धवते । केचित्तु 'धूञ्प्रीणोः-' इति पठित्वा प्रीणातिसाहचर्याध्दुनोतेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च, स्वादौ ह्रस्वश्च । तथा च कविरहस्ये-- 'धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम् । वायुर्विधूनयति चम्पकपुष्षरेणून्यत्कानने धवति चन्दनमञ्जरीश्च । प्रीञ् १८३७ तर्पणे । प्रीणयति । 'धूञ्प्रीणोः-' इति हरदत्तोक्तपाठे तु प्राययति-प्रयति-प्रयते । श्रन्थ १८३८ ग्रन्थ १८३९ सन्दर्भे। आप्लृ १८४० लम्भने । आपयति-आपति । आपत् । आप्ता । स्वरितेदयमित्येके । आपते । तनु १८४१ श्रद्धोपकरणयोः 'उपसर्गाच्च दैर्घ्ये' । तानयति-वितानयति-तनति--


श्यना निर्देशादयं सेट् । तदाह । तर्पितेति । छृदी सन्दीपने इति ॥ ईदित्वन्निष्ठायामिण्निषेधार्थम् । धुवति स्फुटितेति ॥ शविकरणस्य रूपम् । शस्य ङित्वाद्गुणाभावे उवड् । प्रीञ् तर्पणे । प्रीणयतीति ॥ 'धूञ्प्रीञोः' इति वार्तिकान्नुगिति भाव. । हरदत्तेति ॥ अनेन भाष्यासम्मतत्वं सूचितम् । उपसर्गाच्चेति ॥ दैर्घ्ये तु उपसर्गादनुपसर्गाच्च परस्तनु-