उपधारणमभ्यासः । साम १८८० सान्त्वप्रयोगे । अससामत् । 'साम सान्त्वने' इत्यतीतस्य तु असीषमत् । वेल १८८१ कालोपदेशे । वेलयति । 'काल' इति पृथग्धातुरित्येके । कालयति । पल्पूल १८८२ लवनपवनयोः । वात १८८३ सुखसेवनयोः । 'गतिसुखसेवनेषु' इत्येके । वातयति । अववातत् । गवेष १८८४ मार्गणे । अजगवेषत् । वास १८८५ उपसेवायाम् । निवास १८८६ 'आच्छादने' । अनिनिवासत् । भाज १८८७ पृथक्कर्मणि । सभाज १८८८ प्रीतिदर्शनयो: । 'प्रीतिसेवनयोः' इत्यन्ये । सभाजयति । ऊन १८८९ परिहाणे । ऊनयति । 'ओः पुयण्जि–' (सू २५७७) इति सूत्रे 'पययोः' इति वक्तव्ये वर्गप्रत्याहारजकारग्रहो लिङ्गं 'णिचि अच आदेशो न
अससामदिति ॥ अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्व । ननु साम सान्त्वने इति कथादे. प्राक् चुरादौ पाठो व्यर्थः अनेनैव सिद्धे इत्यत आह । साम सान्त्वने इत्यतीतस्य तु असीषमदिति ॥ पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया च उपधाह्रस्व. दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपि साम सान्त्वप्रयोगे इत्येव प्राक् चुरादौ पठितम् । तथापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः । गवेष मार्गणे । मार्गण अन्वेषणम् । चडि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्व । तदाह । अजगवेषदिति ॥ 'निवास आच्छादने' । अनिनिवासत् । 'ऊन परिहाणे' परिहाणन्न्यूनीभावः । ऊनयतीति ॥ णावतो लोप इति भाव. । ननु लुडि चडि ऊन इ अत् इ इति स्थिते णिलोपे ‘चडि’ इत्यजादेर्द्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाभावादभ्यासे इत्त्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूप वक्ष्यति । तदनुपपन्नम् । द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्त्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसङ्गात् । न च द्वित्वे कार्ये अतो लोपस्य द्विर्वचनेऽचीति निषेधः शङ्क्यः । अल्लोपनिमित्तस्य णिचो द्वित्वनिमित्तत्वाभावात् इत्यत आह । ओः पुयण्जीत्यादि ॥ ओ:पुयण्ज्यपरे इति सूत्रे ओः पययोरपरयोरित्येव वक्तव्ये पु इति पवर्गस्य यणिति प्रत्याहारस्य जकारस्य च ग्रहण लिङ्गमित्यन्वय । कुत्र लिङ्गमित्यत आह । णिचीत्यादि ॥ द्वित्वे कार्ये णिज्निमित्तकः अच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वय: । तथाहि । ओ पुयण् ज्वपर इति सूत्रम् । सनि परे यदङ्गन्तदवयवाभ्यासोवर्णस्य इकारस्स्यात् अवर्णपरकेषु पवर्गयण्जकारेषु परत इति तदर्थः । पूड् पिपावयिषति । भू बिभावयिषति । यु यियावयिषति । रुरिरावयिषति । लूञ् लिलावयिषति। जु जिजावयिषति । इत्युदाहरणानि । अत्र द्वित्वम्प्रत्यनिमित्ते णिचि 'द्विर्वचनेऽचि' इति निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वाद्वृध्द्यावादेशयोः कृतयोः अभ्यासेष्वाकारस्य ह्रस्वे सति ‘सन्यत:’ इत्येव इत्त्वसिद्धेः पवर्गयण् प्रत्याहारजकारग्रहणं व्यर्थम् । ओः पययोरपरयोः इत्येव सूत्रमस्तु ।पकारयकारग्रहणन्तु न व्यर्थम् । पिपावयिषति यियावयिषतीत्यत्र उत्क्तरीत्या ‘सन्यत:’ इति इत्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूड्धातोर्युधातोश्च अण्यन्तात् 'सनि अभ्यासे' इत्त्वार्थ तदावश्यकत्वात् । तत्र हि