पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३०५
बालमनोरमा ।

सूत्र १९०९ वेष्टने । सूत्रयति । असुसूत्रत् । मूत्र १९१० प्रस्रवणे । मूत्रयति-मूत्रति । रूक्ष १९११ पारुष्ये । पार १९१२ तीर १९१३ कर्मसमाप्तौ । अपपारत् । अतितीरत् । पुट १९१४ संसर्गे । पुटयति । धेक १९१५ दर्शने इत्येके । अदिधेकत् । कत्र १९१६ शैथिल्ये । कत्रयति--कत्रति । 'कर्त' इत्यप्येके । कर्तयति-कर्तति । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च'(ग सू २०३) प्रातिपदिकाद्धात्वर्थे णिच्स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुव्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृध्दौ सत्यां टिलोपः । अपीपटत् । 'णौ चङि–' (सू २३१४) इत्यत्र भाष्ये तु 'वृद्धेर्लोपो बलीयान्' इति स्थितम् ।


स्यादिति भावः । लिट्याम् चेति ॥ गर्वाञ्चक्रे इत्यत्र 'कास्यनेकाच' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थ.। अन्यथा अनेकाच्त्वाभावादाम् न स्यादिति भाव । एवमत्रेऽपीति ॥ 'मूत्र प्रस्रवणे' इत्यादावित्यर्थः । इत्यागर्वीया । सूत्र वेष्टने । अनेकाच्त्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्प.। 'कत्र शैथिल्ये' । कर्त इत्यपीति ॥ अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वा आह । कर्तयति । कर्ततीति ॥ 'प्रातिपदिकाद्धात्वर्थे बहुळमिष्ठवच्च' चुरादिगणसूत्रमिदम् । इष्ठवदिति ॥ सप्तम्यन्ताद्वति । तेन भुवमाचष्टे भावयतीत्यत्र 'इष्टस्य यिट् च' इति यिडागमो न भवति। तदाह । इष्ठे यथेति ॥ अत्र धात्वर्थे इत्यनेन करणम् । आख्यान दर्शन वचन श्रवण इत्यादि गृह्यते ।पुंवद्भावेति ॥ अतिशयेन पट्वी पटिष्ठेत्यत्र भस्याढे इति पुवत्त्वम् । द्रढिष्ठ इत्यत्र 'र ॠतो हलादेर्लघोः' इति रभावः । अतिशयेन साधुस्साधिष्ठ इत्यत्र टिलोप । अतिशयेन स्रग्वी स्रजिष्ठः इत्यत्र 'विन्मतोर्लुक्' इति विनो लुक् । अतिशयेन गोमान् गविष्ठ. इत्यत्र मतुपो लुक् । अतिशयेन स्थूलः स्थविष्ठ इत्यादौ 'स्थूलदूरयुव' इत्यादिना यणादिलोप. पूर्वस्य च गुण.। अतिशयेन प्रिय प्रेष्ठ. इत्यादौ प्रियस्थिरेत्यादिना प्रस्थाद्यादेश । अतिशयेन स्रग्वी स्रजिष्ठ इत्यत्र भत्वान्न कुत्वम् । एते इष्ठ इव णावपि परतः स्युरित्यर्थ. । पटयतीति ॥ पटुमाचष्टे इत्याद्यर्थे णिच् । इष्ठवत्त्वात् टेरिति टिलोप इति भावः । ननु उकारस्य टेर्लोपे सति अग्लोपित्वात् सन्वत्त्वन्न स्यादित्यत आह । परत्वाद्वृद्धौ सत्यां टिलोपः इति ॥ 'अचो ञ्णिति' इति उकारस्य वृद्धौ कृताया औकारस्य टेर्लोप. । अकृतायान्तु वृद्धौ उकारस्य टेर्लोप । ततश्च 'शब्दान्तरस्य प्राप्नुवन् विधिरनित्य' इति न्यायेन टिलोप. अनित्य । वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साप्यनित्या । एवञ्च वृद्धिटिलोपयोरुभयोर्मध्द्ये परत्वात् उकारस्य वृद्धि औकार. तस्यावादेशात्प्रागेव परत्वात् वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोप इत्यर्थ. । एवञ्च अनग्लोपित्वात् सन्वत्त्वमिति मत्वा आह । अपीपटदिति ॥ एतच्च 'मुण्डमिश्र' इति सूत्रे भाष्यकैयटयो. स्पष्टम् । स्थितमिति ॥ तथाच वृद्धेः प्रागुकारस्य लोपे अग्लोपित्वान्न सन्वत्त्वमित्यर्थ.। भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु 'वृद्धेः लोपो बलीयान्' इति 'णौ चडि' इति सूत्रभाष्यमेव प्रमाणम् । 'मुण्डमिश्र' 39