पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
[चुरादि
सिद्धान्तकौमुदीसहिता

कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । 'कर्तृकरणाद्धात्वर्थे' । (ग सू २०७ ) । कर्तुर्व्यापारार्थं यत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति । असयति । वल्क १९१७ दर्शने । चित्र १९१८ चित्रीकरणे । 'आले-ख्यकरणे' इत्यर्थः । कदाचिद्दर्शने । 'चित्र' इत्ययमभ्दुतदर्शने णिचं लभते । चित्रयति । अंस १९१९ समाघाते । वट १९२० विभाजने । लज १९२१ प्रकाशने । 'वटि' 'लजि' इत्येके । वण्टयति । लञ्जयति । अदन्तेषु पाठबलाददन्तत्वे वृद्धिरित्यन्ये ।वण्टापयति । लञ्जापयति | शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते 'कथापयति' 'गणापयति' इत्यादि । मिश्र १९२२ सम्पर्के । संग्राम १९२३ युद्धे । अयमनुदात्तेत् । अकारप्रश्लेषात् ।


घतदित्यादावपि भवतीति फलितम् । तत्र कारकमित्यनेन कसात् पष्ठी निरस्ता । उदाहृतहेतुमण्ण्यन्तस्थले कृद्योगाभावेन कर्मणि द्वितीयाया एव सत्त्वात् । कार्यमित्यनेन तु कुत्वतत्वे कंसस्य अड्द्वित्वनिरासश्चेति बोध्द्यम् । आख्यानशब्दश्च कथञ्चिद्वृत्तानुवादपर , न तु भारतादिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्द्यति । द्वितीयान्तमित्यत्र द्वितीयाग्रहणमुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्द्यतीति भाष्ये स्पष्टम् । 'कर्तृकरणाद्धात्वर्थे' इदमपि गणसूत्रम् । प्रातिपदिकाद्धात्वर्थे इत्यस्यैव प्रपञ्चः । कर्तुः करण कर्तृकरणं, न तु कर्ता च करणञ्च इति द्वन्द्वः । व्याख्यानात् । तदाह । कर्तुर्व्यापारार्थमिति ॥ अभिमतफलोत्पादनार्थमित्यर्थ | साधकतममिति यावत् | नन्वेव सति करणाद्धात्वर्थे इत्येव सिद्धे कर्तृग्रहण व्यर्थमित्यत आह । न तु चक्षुरादिमात्रमिति ॥ कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात् करणादिशब्देन गम्येत । अतः कर्तृग्रहणमित्याहुः । वस्तुतस्तु 'साधकतमङ्करणम्' इति शास्त्रप्रसिद्धकरणस्य ग्रहणौचित्यात् कर्तृग्रहण स्पष्टार्थमेव । केचित्तु कर्तृकरणादिति द्वन्द्वमाश्रित्य देवदत्तेन वाचयति देवदत्तयतीति कर्तुरुदाजह्र. । कदाचिद्दर्शने इति ॥ चित्रेत्यनुवर्तते । तदाह । चित्र इत्ययमिति ॥ कदाचिद्दर्शने इत्यस्य विवरणमद्भुतदर्शने इति । चित्र चित्रकरणे । कदाचिद्दर्शनयोरित्येव सुवचम् । वटि लजि इत्येके इति ॥ ननु कथादावनयोः पाठो व्यर्थः । इदितोरनयो टकारान्तयोरदन्तत्वस्याप्रसक्ते फलाभावाच्चेत्यत आह । अदन्तेष्विति ॥ अदन्तषु पाठबलात् वण्टलञ्जेति कदाचिददन्तमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाभावादतो लोपम्बाधित्वा 'अचो ञ्णिति' इति वृद्धौ 'अर्तिह्री' इति पुगित्यर्थ. । फलितमाह । वण्टापयतीति ॥ शाकटायनस्त्विति ॥ ॠषिविशेषोऽयम् । 'सङ्ग्राम युद्धे' गणसूत्रमिदम् । युद्धवाचिसङ्ग्रामेति प्रातिपदिक करोत्यर्थे णिच लभते इत्यर्थः । ननु 'प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्धे किमर्थमिदमित्यत आह । अनुदात्तेदिति ॥ एतदात्मनेपदार्थमिति भाव । ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात् कथमनुदात्तेत्त्वमित्यत आह । अकारप्रश्लेषादिति ॥ सङ्ग्रामशब्दादनुदात्तानुनासिक पररूपेण प्रश्लिष्य निर्देशादिति भावः । असस-