पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३१३
बालमनोरमा ।

चइति सुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादस्त्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । 'णौ चङि–' (सू २३१४) इति ह्रस्वः । 'दीर्घो लघोः' (सू २३१८) । न चाग्लोपित्वात् द्वयोरप्यसम्भवः । ण्याकृतिनिर्देशात् । अचूचुरत्

२५७९ । णौ च संश्चङोः । (६-१-३१)

सन्परे चङ्परे च णौ श्वयतेः सम्प्रसारणं वा स्यात् | 'सम्प्रसारणं तदाश्रयञ्च कार्यं बलवत्' (प १२९) इति वचनात्सम्प्रसारणं पूर्वरूपम् अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ।


ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणे चोरि इति रूपम् । तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सति चोरि इत्येव हेतुमण्ण्यन्तम् । तस्माल्लटि तिपि शपि गुणे अयादेशे चोरयतीत्येव रूपमिष्यते । तन्नोपपद्यते । हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वाद्वृद्धौ आयादेशे चोराय् इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह । ण्यन्ताण्णिजिति ॥ ण्यन्ताण्णिचि वृद्धिम्बाधित्वा णिलोप इत्यन्वयः । कुत इत्यत आह । पूर्वविप्रतिषेधादिति ॥ “ण्यल्लोपावियड्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन” इति वार्तिकेनेति भावः । अपवादत्वाद्वेति ॥ 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः । अथ ण्यन्ताण्णौ प्रथमस्य णेर्लोपे चोरि इत्यस्माल्लुडि चडि अचोर् इ अ त् इति स्थिते प्रक्रियान्दर्शयति । णौ चङीति ॥ ह्रस्वः इति ॥ तत हेतुमण्णेर्लोपे चुर् इत्यस्य द्वित्वे सन्वद्भावविषयत्वादाह । दीर्घो लघोरिति ॥ तथाच अचूचुरदिति सिद्धम् । ननु उपधाह्रस्वः अभ्यासदीर्घश्चेति द्वयमपि चड्परे णौ विहितम् । तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न सम्भवति । तस्य द्वितीयणिचा व्यवहितत्वेन चड्परकत्वाभावात् । नापि द्वितीयणिचमादाय तदुभयसम्भवः । द्वितीयणिच्प्रकृतेः प्रथमण्यन्तस्य णिलोपमादाय अग्लोपित्वादित्याशङ्क्य परिहरति । न चेति ॥ अग्लोपित्वात् द्वयोरपि उपधाह्रस्वाभ्यासदीर्घयोरसम्भवो न शङ्क्य इत्यर्थः । कुत इत्यत आह । ण्याकृतिनिर्देशादिति ॥ चड्परे णावित्यत्र णावित्यस्य चड्परकणित्त्वजात्याश्रयैकानेकणिज्व्यक्तिपरकत्व विवक्षितम् | तथाच णिद्वयस्य चड्परकत्वाभावेऽपि णित्त्वस्य चड्परकत्वमस्तीति हूस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः । अत्र जातिनिर्देशः अयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् । 'टु ओ श्वि गतिवृध्द्योः' । अस्माद्धेतुमण्णौ वृध्द्यायादेशयो श्वायीत्यस्मात् लडादौ श्वाययतीति रूपम् । लुडि चडि आश्वि इ अ त् इति स्थिते विशेषमाह । णौ च संश्चङोः ॥ 'विभाषा श्वेः' इति सूत्रमनुवर्तते । 'ष्यङस्सम्प्रसारणम्' इत्यतस्सम्प्रसारणमिति च । तदाह । सन्पर इत्यादिना ॥ नन्वन्तरङ्गत्वात् सम्प्रसारणात्पूर्व वृद्ध्यायादेशयोः कृतयोः पश्चात् सम्प्रसारणे पूवरूपे अशुश्वयदिति स्यात्, अशूशवदिति न स्यात्, इत्यत आह । सम्प्रसारणन्तदाश्रयञ्च कार्यं बलवदिति ॥ इदं वचनं 'लिट्यभ्यासस्य' इति सूत्रभाष्ये स्थितम् । 40