पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३८
[कृदन्त
सिध्दान्तकौमुदीसहिता

सिद्धत्वात्प्राप्तम्यैटोऽभावश्च निपात्यते । श्रीबो मत्तः । कृशस्तनुः । उलाघो नाराग : । 'अनुपमगान्

३०३६ । आदितश्च । (७-२-१६)

आकारेतो निष्ठाया इण्न स्यान् ।

३०३७ । ति च । (७-४-८९)

चरफलोरत उत्स्यात्तादौ किति । प्रफुल्त । प्रक्षीबितः । प्रकृशितः । ओलाधितः । कथं तर्हि “लोश्रदुमं सानुमतः प्रफुलम्' इति । “फुल विकसने' पचाद्यच । सूत्रं तु फुन्तदिनिवृत्त्यर्थम् । “उत्फुलसम्फुल्योरुपसङ्ख-यानम् (वा ४८४३) ।

३०३८ । नुदविदोन्दीत्राघ्राहीभ्योऽन्यतरस्याम् । (८-२-५६)

एभ्या निष्ठातस्य ना वा । नुशः-नुत्त : । विद' विचारणे, रौधादिक एव गृह्यते । उन्दिना परेण साहचयान् । विन्नः-वित्त: । वेत्तेस्तु विदित । विद्यतेविन्नः । उन्दी ।


क्तवत्वेकदेशस्यापीति ॥ क्षीवादिष्विति ।। क्षीबकृशाछाघेष्वित्यर्थः । त्क्तप्रत्यय स्यैवेति । ननु त्क्तवन्वकदेशस्यापीत्यर्थ. । अनर्थकत्वादिति भाव । तस्येति ॥ तलोप स्येत्यर्थः । क्षीवो मत्त इति ॥ क्षीबेः क्तः, तलोप, इडभावश्च । कृशस्तनुरिति । कृशेः क्त., तलापः, इडभावश्च । उलुाघो नीरोग इति ॥ लाघेः क्त , तलोप, इडभावश्च । अत्र मत्तादिरेवार्थः निपातनबलान् । अनुपसर्गात्किमिति । अत्र फुल्त इति प्रत्युदाहरण विवक्षन् तत्र विशषमाह । आदितश्च ॥ निष्ठाया इण्न स्यादिति ॥ 'श्वीदितः’ इत्यतो निष्ठायामिति “नेनडुशि' इत्यता नेदिति चानुवर्तते इति भावः । ति च ॥ ‘चर फलोश्च' इति सूत्रानुवृत्तिम्मन्वा आह । चरफलोरिति । अत उत्स्यादिति ॥ 'उत्परस्यात:’ इत्यतस्तदनुवृत्तेरिति भाव । केितीति ॥ “दीर्घ इण किति' इत्यत मण्डूकप्लुत्या तदनुवर्तते इति भाव । वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला निष्फला च । तयो स्सेटकत्वेन निष्ठा विना तकारादिप्रत्ययाभावात् । कथन्तहति । प्रफुछमित्यस्य सोपसर्ग त्वेन निष्टातस्य लत्वासम्भवादिति भावः । समाधत्त । फुछेति । ननु फुलेः पचाद्यचैव फुछ इत्यस्य सिद्धेः फुल इत्यस्य निपातन व्यर्थमित्यत आह । सूत्रन्त्विति ॥ उत्फुल्ल सम्फुल्लुयोरिति ॥ निष्ठातस्य लत्वनिपातनमिति शेषः । सोपसर्गार्थ वचनम् । नुदविदो न्दी ॥ हीधातोरप्राप्से इतरेभ्यो नित्यम्प्राप्से नत्वविकल्पोऽयम् । रोधादिक इति ॥ 'विद विचारणे' इत्यामेत्यर्थः । वेत्तेस्त्विति ॥ 'विद ज्ञाने' इत्यस्येत्यर्थः । अय सेट्, अनिट्केष्वनन्तर्भावात् । तदाह । विदित इति ॥ अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वन्नेति भावः । विद्यतेर्विन्न इति ॥ ‘दि सत्तायाम्' इत्यमनिट् 'रदाभ्याम्' इति नित्यन्नत्वमिति