३०३९ । श्रीदितो निष्ठायाम् । (७-२-१४)
श्वयतेरीदितश्च निष्टाया इण्न । उन्नः-उत्त । त्राण:-त्रात: । घ्राण:-
३०४० । न ध्याख्यापृमूच्छिमदाम् । (८-२-५७)
एभ्यो निष्ठातस्य नत्वं न । ध्यात : । खट्यातः । पूतः । *रालापः ।
३०४१ । वित्तो भोगप्रत्यययोः । (४-२-५८)
विन्दतेनिष्टान्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुष । “अनयोः' किम्, विन्न । 'विभाषा गमहन-' (सू ३०९९) इति कसौ वेट्त्वादिह नेट् ।
३०४२ । भित्तं शकलम् । (८-२-५९)
भिन्नमन्यत्
भाव । उन्दीति ॥ उदाहरणसूचनम् । श्रवीदितो निष्ठायाम् ॥ श्चि, ईदित् अनयेोस्समा हारद्वन्द्वान्पञ्चमी । “नेनडुशि ' इल्यता नेडित्यनुवर्तते । तदाह । श्वयतेरिति ॥ न ध्याख्या ॥ पञ्चम्यर्थे षष्ठी । तदाह । एभ्य इति ॥ ध्यात्त इति ॥ ध्यैधातोः क्तः “ आदच' इत्यात्वम् । अत्र “सयोगादेरात.’ इति प्राप्तन्नन्वन्न । ख्यात इति ॥ ख्याञ्जादेशपक्षे यण्वत्वात् “सयोगा देरात ' इति प्राप्तन्नत्वन्न । ख्शादशस्य शस्य यत्व तु यस्य णत्वप्रकरणगतस्यासद्धत्वाद्यण्वत्वा भावात् “ संयोगादेरात.’ इति नत्वस्य न प्रसक्तिः । खतस्सिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नास्येवेति ख्याग्रहण व्यर्थमेव । पूर्त इति ॥ पृधातोः क्तः 'श्रयुकः किति' इति नेट् 'उदोष्ठय पूर्वस्य’ इति उत्त्व, रपरत्वम्, इह ‘रदाभ्याम्’ इति प्राप्तन्नत्वन्न । मुर्छीधातोः क्त आह । रालोप इति ॥ छस्य लाप इति भावः । मूर्त इति ॥ ‘आदितश्च' इति नट् । छलेोपे 'रदाभ्याम्' इति प्राप्तन्नत्वन्न । ‘हलि च' इति दीर्घ. । मत्त इति ॥ “मदी हर्पग्लेपनयो.’ अस्मान् क्तः * श्रीदित: इति नेट् । अत्र ‘रदाभ्याम्' इति प्राप्त नत्वन्न । वित्तो भोग ॥ भुज्यत इति भोगः भोग्यम् । प्रतीयते इति प्रत्ययः प्रख्यात । अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् । तदाह । विन्दतेरिति ॥ निपातोऽयमिति । “नुदविदोन्दी' इति प्राप्तस्य पाक्षिकनत्वस्य अभाव निपातनामित्यर्थ । तस्य भोगप्रत्यययेो: कदाऽपि नत्वन्नेत्यर्थः । प्रतीते इति ॥ प्रख्यात इत्यथ । वित्तः पुरुष इति ॥ प्रख्यात इत्यथ । विन्न इति ॥ लब्धश्चारादिरित्यर्थः । अत्र 'यस्य विभाषा' इति इण्निषेधमुपपादयति । विभाषा गमेति ॥ एकाच इति निषेधा चेत्यपि बोध्यम् । भित्तं-शकलम् ॥ शकले वाच्य भिदेः क्तस्य नत्वाभावो निपात्यते ।