पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४४
[कृदन्त
सिध्दान्तकौमुदीसहिता


त्यादीनामीदित्वेनानित्यत्वज्ञापनाद्वा । तेन * धावितमिभराजधिया' इत्यादि । यस्य विभाषा' (सू ३०२५) इत्यत्रैकाच इत्येव । दरिद्रतः ।

३०५८ । क्षुब्धस्वान्तध्वान्तलमम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः:सक्ताविस्पष्टस्वरानायासभृशेषु । (७-२-१८)

क्षुब्धादीन्यष्टावनिट्कानि निपात्यन्ते समुदायेन मन्थादिपु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः, मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्रं सक्तम् । निष्ठानत्वमपि निपातनात् । म्लिष्टमवि स्पष्टम् । विरिब्धः स्वरः । “म्लेच्छ' 'रेभृ' अनयोरुपधाया इत्वमपि निपात्यते । फाण्टम् अनायाससाध्यः कषायविशेष । माधवस्तु नवनातभावा त्प्रागवस्थापत्रं द्रव्यं फाण्टभिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु इत्यनित्यत्वज्ञापनेनेत्यर्थः । धावितमिति । “स्वरातिसूति' इति धूो वेट्-त्वेऽपि “यस्य विभाघा' इति इण्निषेधो नेति भावः । ननु दरिद्राधातोः “तनिपतिदरिद्राणामुपसङ्खयानम्' इति ४ त्यत्रेति । क्षुब्धस्वान्त । क्षुब्ध, स्वान्त, 'वान्त, लन्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टाना द्वन्द्वात्प्रथमाबहुवचनम् । मन्थ, मनः, तम , सत्त, अवस्पष्ट, स्वर, अनायास भृश, एषामष्टाना द्वन्द्वात्सप्तमी । यथासङ्खयमन्वय । समुदायेनेति । । मन्थादष्वत रूढा अवयवार्थाभिनिवेशो न कर्तव्य इत्याह । द्रवद्रव्येति । अत्र याज्ञिकप्रसिद्धिरेव शरणी कतेव्या । मन्थनन्दण्डश्धात ॥ वशाखमन्थमन्थानमन्थाना मन्थदण्डक' इत्यमरः । क्षुब्ध इति । “क्षुभ सञ्चलने' अस्मात् क्तः, इडभावो निपात्यते । “झषस्तथोः' इति धः जश्त्वम् । स्वान्तमिति । स्वनधातो क्तः । “ अनुनासिकस्य कि ' इति दीर्घ, निपातनान्नेट् । स्वान्त हृन्मानस मन.' इत्यमर । ध्वान्तं तम इति ॥ ध्वनेः क्त. । “ अनुनासिकस्य कि इतेि दीर्घः । “ अन्धकारोऽस्त्रिया ध्वान्तन्तमिस्र तिमिर तम.' इत्यमरः । लग्रं सक्तमिति । सम्बद्धमित्यर्थ. । लगेः क्तः, इडभाव. । तत्र रदाभ्या परत्वाभावात् कथ निष्ठानत्वमित्यत आह । निष्ठानत्वमपि निपातनादिति । म्लिष्टमविस्पष्टमिति । इडभावे 'त्रश्च' इति ष.। तकारस्य ष्टत्वेन ट. । “ अथ म्लिष्टमविस्पष्टम्' इत्यमरः । विरिञ्श्र: स्वर इति ॥ स्वरविशेषे इत्यर्थ । “रेभृ शब्दे’ अस्मात् त्क्तः, इडभावे “झषस्तथोर्धः’ इति धः । उभयत्र धातुस्वरूप प्रदर्शयन् आह । म्लेच्छ रेभृ अनयोरिति ॥ इत्वमपीति ॥ इडभावश्चेत्यर्थः । फाण्टमिति । फणेः क्तः, इडभावः, निष्ठातस्य टत्वञ्च निपात्यते । तस्य सिद्धत्वात् “ अनुनासिकस्य' इति दीर्घः । “ अनायासकृत फाण्टम्' इत्यमरः । वृत्तिकृन्मतमाह । कषायविशेष इति ॥ “यदश्धृतमपिष्ट च कषायमुदकससगमात्राद्विभक्तरसमीषदुष्णन्तत्फाण्ट मित्युच्यते” इति वृत्तौ स्थितम् । वेदभाष्ये आहेहांत । “तद्वै नवनीतम्भवति घृत वै