पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५४७
बालमनोरमा ।

३०६६ । णेरध्ययने वृत्तम् । (७-२-२६)

यन्तादृतेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दः, छात्रेण सम्पादितम्, अधीतमिति यावत् । अन्यत्र तु वर्तिता रज्जु ।

३०६७ । श्धृतं पाके । (६-१-२७)

श्रातिश्रपयत्यो: त्ते श्रृभावो निपात्यते क्षीरहविषोः पाके । शृतं क्षीरं स्वयमेव विछिन्ने पकं वेत्यर्थः । क्षीरहविभ्यमन्यत्तु श्राणं-श्रपितं वा ।

२७६८ । वा दान्तशान्तपूर्णददुस्तरस्पष्टच्छद्धज्ञताः । (७-२-२७

एते णिचि निष्टान्ता वा निपात्यन्ते । पक्षे, दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञापितः ।


गम्ये अभेः परः अर्दिरनिट्क इत्यर्थः। सामीप्य इत्येव तु नोक्तम् । अनतिदूरस्य असङ्गहापत्तेः । तत्सूचयन्नाह । नातिदूरमिति । णेरध्ययने । णिलुक् चेति ॥ णिलोपे तु लघूपधगुण स्यादिति भाव । अधायमान इत ।। सूत्र अध्ययनशब्द" कमाण ल्युडन्तः इति भाव । श्रष्टतम्पाके ॥ 'श्रा पाके' घटादिः । तस्माद्धेतुमण्णिचि पुकि मित्वाद्रखे श्रपि इति भवतीति स्थितिः । श्रातिश्रपयत्योरिति ॥ अण्यन्तस्य ण्यन्तस्य च श्राधातोरित्यर्थ । क्षीरहविषो रिति ॥ एतच वार्तिकालभ्यते । अण्यन्त व्यावष्ट । स्वयमेव विन्निमिति ॥ श्राधातुरण्यन्त पाके वर्तते । पाकश्चात्र विकृित्तिरेव विवाक्षिता । न तु तदनुकूलव्यापारोऽपि । तथाच क्षीर विकृित्याश्रयमिति फलितम् । ततो णिचि विकृित्यनुकूलव्यापारार्थकपाविना समानार्थकात् श्रपि इत्यस्मात् कर्मणि क्तप्रत्यये फलितमाह । पचमिति । एतच्च भाष्यकैयटयेोः स्पष्टम् । “क्षीराज्यहविषां श्रृतम्' इत्यमरस्य तु प्रमाद एव, “क्षीरहविषोः' इति वार्तिकविरोधात् । वा दान्तशान्तपूर्णदस्तस्पष्टछन्नज्ञप्ताः ॥ ‘णरध्ययने वृत्तम्’ इत्यतो णारलयजुवतत । ‘दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते । “ अनुनासिकस्य' इति दीर्घ । णिलोपस्तु न स्थानिवत् । निपातनाद्दीर्घविधौ तन्निषेधाच्च । दान्तः, शान्तः । “पूरी आप्यायने' ण्यन्तात् त्क्तः, इडभावो निपात्यते, णिलोपः । रात्परत्वान्नत्वम्, णत्वम्, पूर्णः । एतन “न ध्याख्या पृमूच्छि' इत्येव सिद्धे पूर्णग्रहण व्यर्थमित्यपास्तम्, पूरीधातोण्र्यन्तात् पूर्णरूपार्थत्वात् । “दसु उपक्षये' ण्यन्तात् इडभावो निपात्यते, उपधावृछद्यभावश्च । णिलोपः । “स्पश बाधने ण्यन्तात् त्क्तः, इडभावो निपात्यते उपधावृद्यभावश्च, णिलोप । स्पष्टम् । 'छद अपवारणे ण्यन्तात् त्क्त । इडभावो वृद्धभावश्च निपात्यते । णिलोपः, “रदाभ्याम्' इति नत्वम्, छन्नः । ‘ज्ञप मिच' इति चुरादिण्यन्तात् क्तः । “इडभावो वृध्यभावो णिलोपः' इति कैयटः, ज्ञप्त । पक्ष इति। निपातनाभावपक्ष इत्यर्थः । दमितः, शमित इति ॥ अमन्तत्वेन मित्वाद्रस्वः।