पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५४९
बालमनोरमा ।

३०७२ । प्यायः पी । (६-१-२८)

पी वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं मुखम् । अन्यत्र प्यानः-पीनः स्वेद सोपैसगस्य न' (वा ५०६५) प्रप्यानः । “आङ्पूर्वस्यान्धूधसोः स्यादेव' (वा ३४६१) । आपीनोऽन्धुः ।

३०७३ । हादेो निष्ठायाम् । (६-४-९५)

३०७४ । द्यतिस्यतिमास्थामिति किति । (७-४-४०)

एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सित: । मा, माङ, मेड़ः, मित । स्थितः ।

३०७५ । शाच्छेोरन्यतरस्याम् । (७-४-४१)

शितः-शातः । छितः-छातः । व्यवस्थितविभाषात्वाद्वतविषये श्यते नित्यम् । संशितं व्रतम् । सम्यक्सम्पादितमित्यर्थः । संशितो ब्राह्मणः । व्रत विषयकयत्रवानित्यर्थे

३०७६ । दुधातेर्हिः । (७-४-४२)

तादौ किति । अभिहितम् । निहितम् ।


चायेर्निपातोऽयमिति ॥ प्यायः पी ॥ वा स्यान्निष्ठायामिति ॥ ३शषपूरणमिदम् । 'विभापाभ्यवपूर्वस्य ' इत्यतो विभाषेति * स्फायः स्फी' इत्यता निष्ठायामिति चानुवर्तते इति भावः । व्यवस्थितविभाषेति । अत्र व्याख्थानमेव शरणम् । “सोपसर्गस्य न' इत्यादि भाष्ये स्पष्टम् । हृादो निष्ठायाम् ॥ ह्रस्वः स्यादिति । शेषपूरणमिदम् । 'खचि हस्वः’ इत्यतस्तनुवृतेरिति भावः । प्रहृन्न इति ॥ ‘ह्यादी सुखे' त्क्तः । ‘श्वीदित.’ इति नेट् । 'रदाभ्याम्' इति नत्वम् । द्यतिस्यति ॥ एषां चतुर्णा द्वन्द्वात्षष्ठी । 'दो अवखण्डने इत्यस्य द्यतीति निर्देश . । “षे अन्तकर्मणि' इत्यस्य तु स्यतीति निर्देशः । इत् ति कितीति च्छेद. । ईत्वेति । “घुमास्था' इति इंत्वस्य 'दो दद्धाः’ इतेि दद्रावस्य च यथासम्भव मपवाद इत्यर्थः। दोधातोरुदाहरति । दित इति ॥ मा माङ् मेङिति । 'गामादाग्रहणे घ्वविशेषः’ इति वचनादिति भाव . । शाच्छो ॥ *शो तनूकरणे ', “छो छेदन' अनयो कृतात्वयोर्निर्देशः । अनयोरिकारान्तादेशो वा स्यात् तादौ कितीत्यर्थः । व्यवस्थितेति । एतच भाष्ये स्पष्टम् । दधातेर्हिः । तादौ कितीति । शेषपूरणमिदम् । 'द्यतिस्यति १ इद च “ आङ्पूर्वस्यान्धूधसो.' (वा ३४३१) इति वार्तिकस्य “आङ्पूर्वस्यैव' इति नियमसिद्धम्