३०८८ । जीतः क्तः । (३-२-१८७)
शि विद्ा' क्ष्विण्ण । *वि इन्धी' इद्धः ।
३०८९ । मतिबुद्धिपूजार्थेभ्यश्च । (३-२-१८८)
मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजित । आर्चितः । चवकारोऽनुक्तसमुचयार्थः । 'शीलितो रक्षितः क्षान्त आकुष्टो जुष्ट इत्यपि' इत्यादि ।
३०९० । नपुंसके भावे क्तः । (३-३-११४)
कुीबत्वविशिष्ट भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ।
३०९१ । सुयजोर्डनिप् । (३-२-१०३)
सुनोतेर्यजेश्च ङ्कनिप्स्यादूते । सुत्वा, सुत्वानौ । यज्वा, यज्वानैौ ।
३०९२ । जीर्यतेरतृन् । (३-२-१०४) ।
भूते इत्येव। जरन्-जरन्तौ-जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णः जीर्णवान्।
इति सूत्रे “ अनेकमन्यपदार्थे' इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमा चेति शब्देन्दुशेखरे विस्तरः । इत्यधिकृत्येति ॥ ‘वर्तमाने लट्' इत्यतो मण्डूकप्लुत्या अनु वर्तमान इत्यर्थः । चानशादीनां सर्वकालतायाः 'भूते' इति सूत्रे भाष्ये उक्तत्वात् इत्याहुः । आीतः क्तः ॥ त्रिः इत् यस्य तस्माद्वर्तमानक्रियावृत्तेः क्त इत्यर्थः । “तयोरेव कृल्यक्त' इति भावकर्मणेोरेव भूते विाहितः क्तः वर्तमाने न प्राप्रेोतीत्यारम्भः । श्विण्ण इति ॥ “आदितश्च इति नेट् । इद्ध इति ॥ “श्वीदितः' इति नेट् । मतिबुद्धि ॥ मति, बुद्धि, पूजा, अर्थ एषामिति विग्रहः । वर्तमाने त्क्त इति शेषः । ‘तयेोरेव' इति भावकर्मणोरेव। मतः इष्ट इति ॥ इच्छाथैकान्मनेरिषेश्च क्तः । 'तीषसह' इति वेट्कत्वात् 'यस्य विभाषा' इति नेट् । शीलितो रक्षित इति ॥ भाष्यस्थश्लोकोऽयम् । इत्यादीति ॥ आदिना “रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ।” “हृष्टतुट्टैौ तथाक्रान्तस्तथोभौ सयतोद्यतौ । कष्टम्भविष्यतीत्याहुरमृतःपूर्ववत्स्मृतः” इति सङ्गहः । कष्टशब्दो भविष्यति अमृतशब्दो वर्तमाने इत्यर्थः । नपुंसके भावे क्त ॥ काल सामान्ये इति ॥ अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः । ‘अकर्मकेभ्य एव नपुंसके भावे क्तः, नतु सकर्मकात्'इति ‘णेरध्ययने वृत्तम्’ इति सूत्रे भाष्यकैयटयोः स्पष्टम्। तद्वनयन्नकर्मकेभ्य एवोदाहरति । जलिपतमित्यादि । गत भुक्तमित्यादौ तु अविवक्षितकर्मकत्वात् अकर्मकत्व बोध्यम् । अत एव गत हंसस्य, भुक्तमोदनस्येत्यादौ शेषत्वविवक्षया षष्ठीति दिक् । सुयजो ईनिप् ॥ पञ्चम्यर्थे षष्ठी । सुनोतेर्यजेश्च इनिबित्यर्थः । भूते इति । अस्य भूताधिकारस्थत्वा दिति भावः । सुत्वा-सुत्वानाविांते ड्रनिपि उपावितौ, इकार उच्चारणार्थ गुणः । जीर्यतेरतृन् ॥ भूते इत्येवेति ॥ भूतार्थवृत्तधातोरतृन् स्यादित्यर्थः । ऋकार नकाराबितौ । अत्प्रत्ययशिष्यते । जरन्निति ॥ उगित्वान्नुम् । जीर्ण इति ॥ ‘ऋत इत्’