पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६६
[कृदन्त
सिध्दान्तकौमुदीसहिता


प्रजवी-प्रजविनैौ–प्रज्जविनः ।

३१३७॥जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च। (३-२-१५७)

जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ।

३१३८ । स्पृहेिगृहिपतिदयिनिद्रातन्द्राश्रडाभ्य आलुच् । (३-२-१५८)

आद्याख्यरचुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा, तदो नान्तत्वं निपात्यते । श्रद्धालुः । 'शीडो वाच्य:’ (वा २१४०) । शयालुः ।

३१३९ । दाधेट्सिशद्सदो रुः । (३-२-१५९)

दारुः । धारुः । स्लरुः । ३शदुः । सदुः ।

३१४० । सृघस्यद्दुः क्मरच् । (३-२-१६०)

स्मृमरः । घस्मर

३१४१ । भञ्जभासमिदो घुरच् । (३-२-६१)


जुस्सौत्रो धातुः । प्रपूर्वादस्मात् इनिप्रत्ययः स्यात् तच्छीलादिष्वित्यर्थः । नकारादिकार उच्चारणार्थः । जिद्दक्षि ॥ जि, छ, क्षि, विश्रि, इण्, वम, अव्यथ, अभ्यम, परिभू, प्रसू , एषां दशानां द्वन्द्वः । ‘जि जये, जि अभिभवे, दृड् आदरे, क्षि क्षये, क्षि निवासगत्योः श्रिञ् सेवायां' विपूर्वः । “इण् गतौ, वमु ' नञ्पूर्वः । निपातनात् उद्रिरणे. व्यथ भयसञ्चलनयो नञ्जा धातुना समासे “न लेोपो नजः’ इति नकारलोपः । “अम गत्यादिषु' अभिपूर्वे । “भू सत्तायाम्' परिपूर्वः । 'घू प्रेरणे' प्रपूर्वः । एभ्यः इनिः स्यात्तच्छीलादिष्वित्यर्थः । सूति सूयत्योस्तु सानुबन्धकत्वात् नह ग्रहणम् । स्पृहिगृहेि ॥ स्पृहि, गृहि, पति, दयि, निद्रा तन्द्रा, श्रद्धा, एभ्यः सप्तभ्यः आलुच् स्यात्तच्छीलादिष्वित्यर्थः । स्पृहयालुरिति ॥ स्पृह धातोरदन्तादालुच् । “अयामन्त' इति णरय्, णिलोपापवादः । अछेोपस्य स्थानिवत्वान्न लघूपधगुणः । एव गृहयालुः । पतयालुरित्यत्र तु अछोपस्य स्थानिवत्वान्नोपधावृद्धिः । निद्रालुरिति ॥ 'द्रा कुत्सायाङ्गतौ' निपूर्वादालुच् । तत्पूर्वोद्रेति ॥ तच्छब्दपूर्वो द्राधातुः तन्द्रत्यनेन गृह्यत इत्यर्थः । श्रद्धालुरिति ॥ श्रदित्यव्ययम्, तत्पूर्वात् धाधातोरालुच् । शीडो वाच्य इति ॥ आलुजिति शेषः । दाधेट् ॥ दा, धट्, सि, शद्, सद्., एषा द्वन्द्वात्पञ्चमी । एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थ । स्पृघस्यद्ः ॥ ट, घसि, अद्, एषां द्वन्द्वात्पञ्चमी । घसिः प्रकृत्यन्तरम् । भञ्जभास । भञ्ज, भास, मिद्, एषां द्वन्द्वात्