पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रारस्तु

॥ अथ कर्मकर्तृतिङ्प्रकरणम् ॥


यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारका न्तराण्यपि कर्तृसंज्ञां लभन्ते स्वव्यापार स्वतन्त्रत्वान् । नन पृव करणत्वा दिसत्त्वेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः । साध्वसि: छिनति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका आप प्राय


अथ कर्मकर्तृप्रक्रियान्निरूपयिष्यन् कर्मणः कर्तृत्व साधयितुमाह । यदेति ॥ फल यापारयोर्धातुरिति सिद्धान्त. । पचिहिं विकृित्यनुकूलव्यापार वर्तते । तत्र विकृितिः फलम् । तदाश्रय ओदन कर्म । तदनुकृलो व्यापार अधिश्रयणादि पुरुषप्रयन्नरूपो व्यापारः । तत्रा धिश्रयण चुल्या उपरि तण्डुलयुक्तस्थाल्या. । स्थापन स्थित्यनुकूलव्यापार । तत्र स्थितिः मथ लीतण्डुलनिष्ठा । तदनुकूल पुरुपचेष्टाविशेषः । धातूपात्तव्यापाराश्रयः पुरुषः कर्ता । स्वतन्त्र त्वात् । स्वातन्त्रयम्प्राधान्यमिति भाष्यम् । कर्मकरणादिकन्तु पुरुषप्रयन्नपरतन्त्रत्वान्न कर्तृत्व लभते इति स्थितिः । तत्र यदा सौकर्यातिशयविवक्षया कर्तु पुरुषस्य व्यापारः प्रयत्न न वि वक्ष्यते, किन्तु कर्मादिगत एव व्यापार विहित्यादिफलानुकूलत्वेन विवक्ष्यते, तदा कर्मादि कारकाण्यपि ऋकतृसज्ञा लभन्ते इत्यर्थं । ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्व तन्त्रत्वात्कथङ्कर्मणः कतृत्वामत्यत आह । स्वव्यापारे स्वतन्त्रत्वादिति ॥ स्वातन्त्रयेण विवक्षितत्वादित्यर्थ । तदुक्त “कर्मवत्कर्मणा' इत्यत्र भाष्ये । ‘कर्मकर्तरि कर्तृत्व स्वातन्त्रयन्व विवक्षितत्वात्' इति । अत्र कर्मग्रहणङ्करणादिकारकस्याप्युपलक्षणम् । तेनेति ॥ असिना छि नत्तीत्यादिप्रयोगदशाया सिकुठारादीनाङ्करणत्वादिसत्वेऽपि, आसि छिनत्ति इत्यादिप्रयागदश याङ्कर्तृत्वेन विवक्षितत्वात् कर्तरि लकार इत्यर्थ . । साध्वसि: छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा। साधु इति क्रियाविशेषणम् । सौकर्यातिशयद्योतनाय अतितैक्ष्ण्यात् पुरुषप्रयत्नवि शेषमाघातातिशय विना स्वयमेव असि: छिनत्तीलयथे । काष्ठानि पचन्तीति ॥ अत्रापि करणानाङ्कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राधिकरणस्य कर्तृत्वविवक्षा । काष्ठानाम तिशुष्कत्वात् धमनफूत्कारानपक्षया स्थाल्या आतलघुत्वादावलम्ब्य श्रपणतया साकयम्बाछद्यम् । कर्मणास्त्विति ॥ ये छिदिभिदिप्रभृतयः एककर्मकाः तत्र कर्मणः कर्तृत्वविवक्षाया वृक्षः छि नत्तीत्यादौ सकर्मकत्वऽपि सम्प्रति कर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थ. । ये तु द्विकर्म काः तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्वात्प्रायेणेत्युक्तिः ।