पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८६
[उणाद्य
सिध्दान्तकौमुदीसहिता


८४ । कषेश्छश्च । कच्छूः पामा ।

८५ । णित्कसिपद्यतेः । कासूः शक्तिः । पादूश्चरणधारिणी । आरूः

८६ । अणो डश्च । आडूर्जलप्वद्रव्यम् ।

८७ । नवि लम्बेर्नलोपश्च । 'तुम्ब्यलाबूरुभे समे' इत्यमरः ।

८८ । के श्र एरङ् चास्य । कशब्दे उपपदे श्रृणातेरूः स्यात् एरङादेशः । कशेरूस्तृणकन्दे स्री' बाहुलकादुप्रत्यये कशेरुः । झीबे पुंसि च ।

८९ । त्रो दुट् च । तरतेरूः स्यात्तस्य दुट् । ‘तः स्याद्दारुहस्तकः ।

९० । दरिद्रातेर्यालोपश्च । इश्च आश्च यौ तयोलॉपः । दर्दूः कुष्ठप्रभेदः ।

९१ । नृतिश्ध्योः कूः । नृतूर्नर्तकः । श्रृंधूरपानम् ।

९२ । ऋतेरम् च । ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तूर्देवनदी

९३ । अन्दूदृम्भूजम्बूकफेलकर्कन्धूदिधिषुः । एते कूप्रत्ययान्ता निपात्य न्ते । अन्दूर्बन्धनम् । “दृभी ग्रन्थे' निपातनान्नुम् । दृम्भूः । अनुस्वाराभावो ऽपि निपातनादित्येके । दृन्भूः । जनेर्बुक् । जम्बूः । ‘जमु अदने' इत्यस्येत्येके ।


वधूः’ इति त्रिकाण्डशेषः । कषेः ॥ कषशषेति दण्डके पठितः। ‘कछान्तु, पामपामे विचर्चिका' इत्यमरः । णित्कसि ॥ कस गतौ । 'कासूर्विकलवाचि स्यात् तथा शक्तयायुधे स्त्रियाम्' इति मेदिनी । 'कासूः शक्तयायुधे रुजि । बुद्धौ विकलवाचि स्यात्' इति हेमचन्द्रः । न लम्बतेत अलाबूः । त्रो दुट् च ॥ तरिति ॥ 'नेड़शि' इति नेट् । वरमनादाविति परिगणनस्याना श्रितत्वात् बाहुलकाद्वा । केचित्तु त्रो दुक् चेति पठित्वा धातोर्तुगागममाहुः । तेषान्धातोर्गुणो दुर्लभः । चकारबलेन वा साधनीयः, दुगागमात्पूर्व यत्प्राप्तन्तदपि भवतीति व्याख्यानात् । दरिद्रातेः ॥ इश्च आश्रेति ॥ भोजदेवस्तु र्यालोप इति रेफादिक पदं छित्वा द्वेधा व्याख्यत् । इश्च आश्च । दर्दूः । रश्च इश्व आश्च । ‘अन्यबाधेऽन्यसदेशस्य’ इति द्वितीयरेफलोप । दः । मृगय्वादित्वाद्ददुर्हस्वान्तश्च । “ददुणो ददुरोगी स्यातू' इत्यमरः । इत्थञ्चत्वारि रूपाणि । अन्दूदृम्भू ॥ अन्दूर्बन्धनमिति ॥ 'अदि बन्धने ' । “अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च' इति मेदिनी । “अन्दुको हस्तिनिगडे' इत्यमर । “सज्ञायाङ्कन्' । “ केऽणः’ इति हस्वः । केचित्तु ‘अम गतौ' अस्य दुव् अन्दूबुद्धिरिति व्याचख्यु । दृभी ग्रन्थे इति तुदादिः । दृम्भूरिति ॥ सन्दर्भकर्तत्यर्थः । कथकः इत्यन्ये । अस्य रूपाणि हूवादित्युक्तम् । कैयटी ऽप्यत्रानुकूलः । माधवादयस्तु दृढशब्दे उपपदे भुवः किप्प्रत्ययः, उपपदस्य दृन्नादेशो निपात्यते । यद्वा दृन्निति नान्तमव्यय दृढार्थकमुपपद, दृन्भूः, तरुः सर्पः कपिर्वेति व्याख्याय ‘दृन्कर’ इति य