अनेन निघृष्वः खुरः । रिष्वो हिंस्र । लण्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीडो ह्रस्वत्वम् । पद्वो रथो भूलोकश्च । प्रहूयते इति प्रह्व रालापो वा । ईषेर्वन् । ईष्वः आचार्यः । इष्व इत्यन्ये । “ अस्वतन्त्रे' किम् । सर्ता सारकः । बाहुलकाद्रसतेः । ह्रस्वः ।
१५२ । शेवयद्वजिहाग्रीवाप्वमीवाः । शेव इत्यन्तोदात्तार्थम् । यान्यनेन यह्वः । हृस्वो हुगागमश्च । लेलहन्त्यनया जिह्वा । लकारस्य ज: गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईंडागमश्च । आप्रोतीत्याप्वो वायुः । मीचा उद्रकृमिः ।
१५३ । कृगृशूदृभ्यो वः । कर्वः कामः आखुश्च । गर्वः । शर्वः । द्व राक्षस ।
१५४ ॥ कनिन्युदृषितक्षिराजिधन्विद्युप्रतिदिवः । यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम्। युवा सूर्यः । प्रति दीव्यन्त्यस्मिन्प्रतिदिवा दिवसः ।
१५५ । सप्यशभ्यां तुट् च । सप्त । अष्ट ।
१५६ । नजि जहातेः । अहः । १५७ । 'वन्मुक्षन्पूषन्लाह्वन्लदन्तहृन्मूधन्मज्जन्नयमान्वश्वप्सन्पारज्म न्मातरिश्वन्मघवानिति । एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति
ह्रस्व इति ॥ 'हस शब्दे' । “हस्वो न्यक्खर्वयोत्रिषु' इति मेदिनी । शेवयह्व ॥ दशपादी वृत्तिरीत्याह । यान्त्यनेनेति । अन्ये तु यजतेर्जकारस्य हकारो निपात्यत इत्याहुः । यह्मशब्दो वादकानघण्टा महन्नामसु पाठत ' । प्रवा यह्य पुरूणाम् । “यह्य महान्तम्' इति वेदभाष्यम् । मीवेति ॥ वेदभाष्ये तु अमीव इति छित्वा 'अम रोगे' इत्यस्माद्वः ईट् चेत्युक्तम् । “ अमी वहा वास्तोष्पते' इत्यादिमन्त्रास्तत्रानुकूलाः । कनिन्यु ॥ ‘युवा स्यात्तरुणे श्रेष्ठ निसर्ग बलशालिनि । वृषा कर्णे महेन्द्रे ना' इति मेदिनी । “तक्षा तु वधाकस्त्वष्टा रथकारस्तु काष्ठ तट्' इत्यमरः । “राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शक्रे च पुसि स्यात्' इति मेदिनी । 'समानौ मरुधन्वानौ' इत्यमरः । “अथात्रयाम् । धनुश्चापा धन्वशरासनकादण्ड कार्मुकम्’ इति च । धन्वा तु मरुदेश ना कीबे चापे स्थलेऽपि च' इति मेदिनी । धन्वि र्गत्यर्थः सौत्रो धातुः । ‘द्यु अभिगमे' द्युवा सूर्य । प्रतिदिवेति ॥ 'प्रतिदीने इन्धत आकृतान्’ इति मन्त्रे तु प्रतिदिवा कितव इति व्याख्यातम्। श्वन्नुक्षन् ॥ कनिप्रत्ययान्ता