श्वा । उक्षा । पूषा । “हि गतौ ' । इकारस्य दीर्घत्वम् । ऐहतीति पृीहा कुक्षिव्याधि । “क्रुिदू आद्रीभावे ' । छिद्यति छेदा चन्द्रः । रुिन्नह्यतेर्गुण । न्निह्यतीति रुझेहा सुहृचन्द्रश्च । मुह्यन्यस्मिन्नाहते मूर्धा । मुहेरुपधाया दीघ धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् । अर्यमा । विश्धं प्साति विश्वप्सा अग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जने रुपधालोपो मश्चान्तादेशः । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकार लोपः । “मह पूजायाम्' । हस्य घो बुगागमश्च । मघवा इन्द्रः ।
॥ इत्युणादिषु प्रथमःपादः ।
॥ अथ उणादिषु द्वितीयः पादः ।
१५८ । कृहृभ्यामेणुः । करेणुः । हरेणुः गन्धद्रव्यम् ।
१५९ । हनिकुषिनीरमिकाशिभ्यः क्थन् । हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ।
इति ॥ नाय निदिति भावः । एतच हलन्तशब्दप्रकरणे मघवन्शब्दे व्युत्पादितम् । केचित्तु नित्वं खीकृत्योक्षन्नादीनां सौत्रमन्तोदात्तनिपातनमाहुः । तद्रौरवादुपेक्षितम् । श्वेति ॥ इकार लोपो निपात्यते । पूषेति ॥ ‘पूष वृद्धौ' 'दौषधिशशाङ्कयोः' इति यादवः । मूर्धेति ॥ ‘मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः । मजेति ॥ टाबन्तोऽप्ययम् । ‘ऊष्मया सार्द्धमूष्मापि मज्जोक्तो मज्जया सह' इति द्विरूपकोशात् । ' अर्यमा तु पुमान् सूर्ये पितृदेवान्तरेऽपि च' इति मेदिनी । परिजायते इत्यादि । एतच दशपादीवृत्त्यनुरोधेनोक्तम् । 'परिज्मान सुख रथम्' इति मन्त्रस्य वेदभाष्ये तु परिज्मा परितेो गन्ता । अजेः परिपूर्वस्य “श्वन्नुक्षन्' इत्यादिना मन्प्रत्ययः । अकारलोपः । आद्युदात्तत्वञ्च निपात्यते इत्युक्तम् । उज्ज्वलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः, परिज्वा चन्द्र इत्याह । तलक्ष्यविरोधादुपेक्ष्यम् । मात रिश्वेति ॥ सप्तम्या अलुक् उदात्तत्वञ्च निपात्यते । इह भत्वविषये सम्प्रसारणन्न भवति । श्वयुवेति सूत्रेऽभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य ग्रहणम् । इह सूत्रान्त इति शब्द आद्यर्थः । तेनान्येभ्योऽपि यथादर्शनङ्कनिः । दशपाद्यान्तु इतिशब्दो न पठ्यते ॥
॥ इत्युणादिषु प्रथमः पाद ॥
कृद्वभ्याम् ॥ 'करेणुरिभ्या स्त्री नेभे' इत्यमरः । 'करेणुर्गजयेोषायां स्त्रियां पुंसि मतङ्गजे' इति मेदिनी । गन्धेति ॥ कलापवेति बोद्यम् । 'कलापस्तु सतीनकः । हरेणुः खण्डके चास्मिन्’ इति वैश्यवर्गे अमर । “हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितोः ' इति मेदिनीविश्वप्रकाशौ । ‘कुठं रोगे सुगन्धे च' इति विश्व । 'नीथे नीथे मघवानं सुतासः' इति