पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०२
[उणादिषु
सिध्दान्तकौमुदीसहिता


१९४ । हनो वध च । वधकः ।

१९५ । बहुलमन्यत्रापि । ‘कुह विस्मापने' । कुहकः । कृतकम् ।

१९६ । कृषेद्धिश्चोदीचाम् । कार्षकः-कृषकः ।

१९७ । उदकं च । प्रपञ्चार्थम् ।

१९८ । वृश्चिकृषोः किन् । वृश्चिकः । कृषिकः ।

१९९ । प्राडिः पणिकषः । प्रापणिकः पण्यविक्रयी । प्राकषिक: परदारो पजीवी ।

२०० । मुषेदीर्घश्च । मूषिकः आखुः।

२०१ । स्यमेः सम्प्रसारणं च । चाद्दीर्घः । सीमिकः वृक्षभेदः ।

२०२ । क्रिय इकन् । क्रयिकः क्रेता ।

२०३ । आङि पणिपनिपतिखनिभ्यः । आपणिकः । आपनिकः इन्द्र आखनिको मूषिको वराहश्च ।

२०४ । इयास्याह्वयविभ्य इनच । इयेनः । स्येनः । हरिण अविनोऽध्वर्युः ।

२०५ । वृजेः किच । वृजिनम् ।

२०६ । अजेरज च । वीभावबाधनार्थम् । अजिनम् ।


‘चषकोऽस्त्री सुरापात्रे मद्यमाद्यप्रभेदयो.' इति मेदिनी । लमकः ऋषिविशेषः । कृषेः ॥ कार्षकः कृषावल । कृषकः स एव । ‘कृषकः पुसि फाले स्यात् कार्षके त्वभिधेयवत्' इति मेदिनी । स्त्री कुशी कुशिकः फाल’ इति रत्नकोशः। उदकं च ॥ उन्दी लेदने । ननु 'क्वुन् शिल्पि इत्यादिना गतार्थमिदम् । अत आह । प्रपञ्चेति । प्राङि ॥ सङ्घात उपपदम् । अाडिः ॥ नन्वनेनैव सिद्धे प्राडीत्यत्र पणिग्रहण व्यर्थमिति चेन्न । उपसर्गान्तरनिवृत्त्यर्थत्वात् । आपणिक इति । वणिक् । नित्खरेरणाद्युदात्त । आपणेन व्यवहरतीत्यर्थे ठकि तु 'कितः' इत्यन्तोदात्तः । 3यास्या ॥ 'इयेनः पत्रिणि पाण्डुरे' इति मेदिनी । स्येनश्चोरः । “स्तेन चौर्ये' इति चौरादिकात्पचाद्यचि तु निर्यकारोऽपि । केचित्तु “स्तायूना पतये' इत्यादिप्रयोगोपष्टम्भेन निर्य कारस्यापि छैधातोःस्वादिषु माधवादिभिः खीकृतत्वातू प्रकृतसूत्रेऽपि तमेव पठन्तः स्तनशब्दो निर्यकार एवेत्याहुः । 'हरिण: पुसि सारङ्गे विशदे त्वभिधेयवत् । हरिणी हरितायाश्च नारी भिदृत्तभेदयोः । सुवर्णप्रतिमायाश्च' इति मेदिनी । वृजेः किञ्च ॥ 'वृजिन कल्मषे कृीबद्देशे ना कुटिलेऽन्यवतू' इति मेदिन । आजिनमिति ॥ 'अजिनञ्चर्म कृतिः स्त्री' इत्यमर ।