पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीय: पाद:]
६०७
बालमनोरमा ।

२४७ ॥ युधिबुधिदृशिभ्यः किच । युधानः । बुधानः । दृशानो लोक पालकः । २४८ । हुर्छः सनो लुक् छलोपश्च । जुहुराणश्चन्द्रमाः ।

२४९ । श्वितेर्दश्च । शिश्चिदानः पुण्यकर्मा ।

२५० । तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ । शंसे: क्षदादि भ्यश्च क्रमातृन्तृचौ स्तः । तैौ चानिटौ । शंस्ता स्तोता । शैस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेन् । “वृक्ये चक्षदानम् इति मन्त्रात् । 'उक्षाणं वा वेहतं वा क्षदन्ते' इति ब्राह्मणाच । * क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे' ।

२५१ । बहूलमन्यत्राांपे । मन् मन्ता । हन् हन्ता । इत्यादि ।

२५२ । नप्तृनेष्टत्वष्टहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ। न पतन्त्यनेन पितरो नरके इति नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितो ऽत्त्वम्। त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः भ्राता । जायां माति


अर्शसानाय शत्रुणा हिसित्रे इति व्याख्यातम् । युधिबुधि ॥ बाहुलकात् कृपेरपि । कृपाणः खङ्गः । “कृपाणेन कथङ्कार कृपणः सह गण्यते । परेषान्दानसमये यः खकोशं विमुञ्चति ।’ हुर्छः ॥ 'युयोध्यस्मज्जुहुराणमेनः' इति मन्त्रे जुहुराणौटिल्यकारि पाप, युयोधि पृथक् कुर्विति भाष्यम् । श्वितेर्दश्च ॥ श्विता वणें । अस्मात्सनन्तादानचू, सनो लुक्, तकारस्य दकारः । किदित्यनुवृतेर्न गुणः । पुण्यकर्मेति । स हि उज्ज्वलो भवितुमिच्छति । “शिश्चि दानोऽकृष्णकर्मा' ३ति विशेष्यनिन्ने अमरः । अकृष्णं शुक् शुद्धमित्यर्थः । इह क्षीरखामी प्रकृत सूत्र विस्मृत्य, विदि चैलेये, अस्मालिट. कानजिति व्याख्यत् । ततुच्छम् । कानचवश्छान्दसत्वात् । इदित्वेन नलोपानुपपत्तेश्चेति दिक् । कृष्णकर्मेलयमरे पाठान्तरम् । पापकर्मत्यर्थः तत्रावयवार्था नुगमबलेन बोछद्यः । शुद्धो भवितुमिच्छतीत्युक्तो हि इदानीमशुद्ध इति गम्यते । तृन्तृचौ ॥ ‘अप्तृन्’ इत्यतोऽत्र दीघ नेत्युदाहरति । शंस्तररावित्यादि ॥ नित्वादाद्युदात्तः। तथाच मन्त्रः । प्रावग्राम उत शस्तासु विप्र.’ । आदिशब्दात् ‘शासु अनुशिष्टौ'। शास्ति विनयति सत्त्वानि शास्ता बुद्ध, शास्तरौ-शास्तरः । ‘शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' इति मेदिनी । प्रपूर्वस्य तु ‘अप्तृन्’ इति दीर्घः । प्रशास्तारौ-प्रशास्तार । * क्षत्ता शूद्राच्च वैश्याजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि स्यात् नियुक्तवेधसोः पुमान्’ इति मेदिनी । कोशानुसारेणाह । वैश्याया मिति ॥ अमरस्तु “क्षत्रियायाञ्च शूद्रजे' इत्याह । याज्ञवल्क्योऽपि । ‘क्षयिा मागध वैश्यात् शूद्रात् क्षत्तारमेव च' इति । इह बहुलमन्यत्रापात प्रपञ्चार्थत्वात् उपेक्षितम् । नसेति ॥ नञ्जः प्रकृतिभावः । “पतूल् गतौ' इत्यस्मात् तृच् टिलोपः । “त्वष्टा पुमान्।