वपुः । यजुः । तनुः-तनुषी-तनूषि । धनुरस्त्रियाम् । “धनुर्वेशविशुद्धोऽपि निर्गुणः किं करिष्यति' । सान्तस्योदन्तस्य वा रूपम् । ‘तपुः सूर्यान्निशत्रुषु ।
२७५ । एतेर्णिच । आयुः । आयुषी ।
२७६ । चक्षेः शिच । चक्षुः ।
२७७ । मुहेः किञ्च । मुहुरव्ययम् ।
२७८ । बहुलमन्यत्रापि । आचक्षुः । परिचक्षुः ।
२७९ । कृगृशृष्टञ्चतेिभ्यः ष्वरच् । 'कर्वरो व्याघ्ररक्षसोः' । गर्वरो ऽहङ्कारी । शर्वरी रात्रि । * वर्वरः प्राकृतो जन.' । चत्वरम् ।
२८० । नो सदेः । ‘निषद्वरस्तु जम्बाल ' । निषद्वरी राखि ।
॥ इत्युणादिपु द्वितीयपादः ॥
॥ अथ उणादिषु तृतीयपाद्ः ॥
२८१ । छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्टरसं यद्वराः । एकादश ष्वरच्प्रत्ययान्ता निपात्यन्ते । “छिदिर' *छद्' अनयो स्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्त । *छत्वरो गृहकुञ्जयोः' ।
इत्यमर । “ग्रन्थिनों पवेपरुषी' इति च । “वपुः कृीबन्तनु शस्ताकृतावपि ' इति मेदिनी । तनुः शरीरम् । 'तनुषे तनुषेऽनङ्गम्' इति सुबन्धु । ‘स्यात्तनुस्तनुषा सार्ध धनुषा च धनु विदुः’ इति द्विरूपषु विश्व । “ अथात्रियान्धनुश्चापौ' इत्यमर । “धनुः प्रियाले ना न स्त्री राशिभेदे शरासने । धनुर्धरे त्रिषु' इति सान्ते मेदिनी । चक्षे ॥ शित्वात्सार्वधातुकत्वे ख्याञ् न । चक्षते रूपमनुभवन्त्यनेनेति चक्षुः । मुहेः ॥ ‘मुहुः पुनःपुनः शश्वत् अभीक्ष्णम सकृत् समाः ।' इत्यव्ययेष्वमरः । अस्मात्पर बहुलमन्यत्रापीति सुस्पष्टत्वात्यक्तम् । कृगृ ॥ नैत्रतः कर्वरः क्रव्यात्कबुरो यातुरक्षसोः' इति शब्दार्णव . । “शर्वरी यामिनीत्रियोः' इति मेदिनी । ‘वर्वरः पामरे केशविन्यासे नीवृदन्तरे । वर्वरः फञ्जिकायान्तु वर्वरा शाखपुष्पयो इति विश्वः । “वर्वर. पामरे केशवल्कले नीवृदन्तरे । फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम्' इति मेदिनी । ‘चत्वरं स्थण्डिलेऽङ्गणे' इति च । नौ सदेः ॥ ष्वरजनुवर्तते । सदिरप्रतेः' इति षत्वम् । 'निषद्वरः स्मरे पङ्के निशायान्तु निषद्वरा ' इति मेदिनी ।।
॥ इत्युणादिषु द्वितीयः पाद ॥
छित्वर ॥ 'छित्वर छेदनद्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी । “डु धाञ्’ । अन्यस्य ईत्वम् । एवं “पा पाने' इत्यादीनामित्येके । अन्ये तु “पीव मीव तीव नीव स्थौल्ये