पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१६
[उणादिषु
सिध्दान्तकौमुदीसहिता

३२४ । नौ हः । जहातेः कन्स्यान्नौ । निहाका गोधिका ।

३२५ । नौ सदेर्डिच । “निष्कोऽस्त्री हेन्नि तत्पले' ।

३२६ । स्यमेरीट् च । स्यमीको वल्मीकः वृक्षभेदश्च । इट् हस्व इति काचवत् । स्यामकः ।

३२७ । अजियुधिनीभ्यो दीर्घश्च । 'वीकः स्याद्वातपक्षिणोः' । यूका । धूका वायुः । नाका वृक्षावशष ।

३२८ । हेियो रश्च लो वा । “' । हाका हाका त्रपा मता

३२९ ॥ शकेरुनोन्तोन्युनयः । “उन' “उन्त' 'उन्ति' “उनि' एते चत्वारः स्यु. । शकुनः । शकुन्तः । शकुन्ति. । शाकुनिः ।

३३० । भुवो झिच् । भवन्तिर्वर्तमानकालः । बाहुलकाद्वेश्च । अवन्तिः । वदेर्वदन्तिः । 'किंवदन्ती जनश्रुति ' ।

३३१ । कन्युच्क्षिपेश्च । चादुव । 'क्षिपण्युर्वसन्तः’ इत्युज्ज्वलदत्तः । भुवन्युः स्वामसूयया ' ।

३३२ । अनुङ् नदेश्च । चाक्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ।

३३३ । कृष्टदारिभ्य उनन् । 'करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ।


तदभावात् । बाहुलकात् इयतेः कन् । “शाको द्वीपान्तरेऽपि च । शक्तौ दुमविशेषे च पुमान् हारीतके त्रियाम्' इति मेदिनी । नौ ह ॥ 'निहाका गोधिका समे' इत्यमरः । 'शाकं नस्य निहाकयोः' इति श्रुतिः । ‘निष्कमत्री साष्टहेमशते दीनारकर्षयोः । वक्षोऽलङ्करणे हेमपात्रे हेमपलेऽपि च' इति मेदिनी । स्यमेः ॥ ‘स्यमु शब्दे' । “स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः' इति मेदिनी । अजियु ॥ एभ्यः कन् । एषान्दीर्घश्च । तत्सामथ्र्यात् गुणाभावः । शकेः ॥ “शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजा.' इत्यमरः । 'शकुनस्तु पुमान् पक्षिमात्रे पक्षिविशेषयोः । शुभशसिनिमित्ते च शकुन स्यान्नपुसकम्' इति मेदिनी । “शकुन्तः कीटभेदे स्याद्रासपक्षिविहङ्गयोः' इति । शकुनिः पुसि विहगे सौबले करणान्तरे' इति च । बाहुलका त्कमेरपि प्रत्ययादिलोपे कुशब्दादेशः । कुन्ति । “इतो मनुष्यजातेः' इति डीष् । “कुन्ती पाण्डुप्रियायाश्च सलक्याङ्गुग्गुलुटुमे' इति मेदिनी । कन्युच् ॥ 'क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गके' इति मेदिनी । 'भुवन्युः स्यात् पुमान् भानौ ज्वलने शशलाञ्छने' इति विश्व मेदिन्यौ । कृवृ ॥ ‘करुणस्तु रसे वृक्षे कृपायाङ्करुणा मता' इति विश्वमेदिन्यौ। 'वरुणस्तरुभेदे ऽप्सु प्रतीचीपतिसूर्ययोः' इति विश्वः । ‘दारुणो रसभेदे ना त्रिषु तु स्याद्रयावहे' इति मेदिनी ।