पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४०
[उणादिषु
सिध्दान्तकौमुदीसहिता


३७३ । हृश्याभ्यामितन् । हरितश्येतौ वर्णभेदौ ।

३७४ । रुहे रश्च लो वा । 'रोहितो मृगमत्स्ययोः' । लोहितं रक्तम् ।

३७५ । पिशेः किच । पिशितं मांसम् ।

३७६ । श्रुदक्षिस्पृहिगृहेिभ्य आय्यः । । दक्षाय्यो श्रवाया यज्ञपशु गरुडो गृध्रश्च । स्पृहयाय्य: । गृहयाय्यो गृहस्वामी ।

३७७ । दिधिषायः । दधातेर्द्धित्वमित्वं षुक्च । 'मित्र इव यो दिधि

३७८ । घृञ्ज एण्यः । वरेण्यः ।

३७९ । स्तुवः क्सेयश्छन्दसि । “स्तुषेय्यं पुरुवर्चसम्' ।

३८० । राजेरन्यः । राजन्यो वह्निः ।

३८१ । शूरम्योश्च । शरण्यम् । रमण्यम् ।

३८२ । अर्तेर्निच । अरण्यम् ।

३८३ । पर्जन्यः । “पृषु सेचने' षस्य ज: 'पर्जन्यः शक्रमेघयोः' ।

३८४ । वदेरान्यः । “वदान्यस्यागिवाग्मिनो


शैलजे ताप केशपाशे च कर्दमे' इति मेदिनी । हृश्या ॥ 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुते ऽन्यवत्' इति मेदिनी । रुहेः ॥ रोहितं कुडुमे रक्त ऋजुशकशरासने । पुसि स्यान्मीनमृगयो भेदे रोहितकदुमे । रोहित रक्तगोशीर्षकुङ्कमाजिकुचन्दने । पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति' इति मेदिनी । पिशेः ॥ “पिशित मास मांस्यां स्त्री' इति मेदिनी । मांस्याञ्जटा मांस्याम् । तथा च “जटा च पिशिता पेशी' इति धन्वन्तरि । श्रुदक्षि ॥ “उद्यतत्रुचे भवसि श्रवाय्य:’ इति मन्त्रे श्रवाय्यो मन्त्रैः श्रवणीयः इति वेदभाष्यम् । ‘दक्षाय्यो यो दम आस नित्यः ।’ ‘विश्वरूपस्य स्पृहयाय्यस्य राजन् ।’ दिधिषाय इति ॥ 'मित्र इव यो दिधिषाय्यः' इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः । उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः षत्वञ्च, दधिषाय्यो घृतमिति व्याख्यत् । दशपादी वृत्तिकारस्तु धिषशब्दे अस्य द्वित्वं गुणाभावः अत्वञ्चाभ्यासस्य निपात्यते इत्याह । प्रसाद कारादयोऽप्येवमेव प्रतिपन्ना. । तदेतत्सर्वं लक्ष्यविरोधाद्वेदभाष्यविरोधाचोपेक्ष्यम् । स्तुव ॥ स्तुषेय्य स्तोतव्यम् । बहुरूपमिति वेदभाष्यम् । यत्तूज्ज्वलदत्तेन “सुतुवः केय्यः’ इति पठित्वा कित्वादुणाभावे उवडादेशे स्तुवेय्यः पुरन्दरः इत्युक्तम् । तन्न । वेदतद्राष्यादिविरोधात् । तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकृदेव ज्यायान् । पर्जन्यः ॥ ‘मेघशब्देऽपि पर्जन्यो ध्वनदम्बुदशक्रयोः' इति मेदिनी । वदेः ॥ अजयकोशस्थमाह । वदान्य इत्यादि ॥